SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभावः कीर्तित्रयीभ्यो नमः, २८ तमेऽङ्के मुखपृष्ठस्थां श्रुतदेवताप्रतिकृति विलोक्य, तदनु च तद्विषयकं लेखं पठित्वाऽऽवजितं मे मनः । सादरमनुमोदयामि भवदीयां सूक्ष्मेक्षिकाम् । अज्ञानस्य विश्वकोशः, अनुभूतिः, भोपालवायुदुर्घटना चैते त्रयोऽपि लेखाः चयनेन, प्रस्तुत्या, अनुवादेन च भवतां सम्पादनकौशल्यं अभिव्यञ्जन्ति । भूयो भूयः साधुवादानर्पयन् विरमति वैराग्यरतिविजयः * * * मान्याः सम्पादकवर्याः, सादरं प्रणतयः । सप्तविंशतितमी शाखा विलम्बेनाऽधिगता । अत्र 'प्रास्ताविके' सत्यमभिधीयते । लेखनेऽपि समुत्कृष्टतायाः कोऽपि विवेकः स्यात् । अत्र डा. रामकिशोरमिश्र-अभिराजराजेन्द्रमिश्रादीनां रचनाः प्रसादयन्ति । कलियुगस्य गुणदोषवर्णनं श्रीएच्. वि. नागराजरावस्य 'कलिविमर्शनशतके' विराजते । सर्वथा लज्जां विहाय या नार्यः स्वानि गोपनीयान्यङ्गानि प्रदर्शयन्ति, ता एव तरुणजनानां देवताः । बाला वृद्धाश्चाऽपि तत्सदृशानि दृश्यानि द्रष्टुं वाञ्छन्ति । अतोऽधिकं समाजस्य पतनं किं स्यात् ? 'वयसि गते कः कामविकारः ?' इति शङ्कराचार्यस्य सरस्वती त्वद्य मृषैव भाति । 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' - इत्यादयः कथाः सर्वथा पठनीयाः सन्ति । एतासु कथासु नैतिकजीवनस्योत्कृष्टो मानदण्डो विद्यते । एता: कथाः सर्वान् नूतनजीवितस्य प्रेरणां प्रयच्छन्ति । डॉ. रूपनारायणपाण्डेयः प्रयागः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy