________________
(२) ग्रीष्मः
ग्रीष्मे भीष्मतपप्रसर: सिकतानिचयो ज्वलदङ्गारः शैलसमूहो गतशृङ्गारः शोषितसलिलो जलभृङ्गारः, प्रखरोऽतुहिनकर:..... अनिलोऽनलमिव वपुषि विभाति स्विन्नतनुर्जलधरतां याति शुचिता तनु-वसनानि जहाति, लोको मलिनतर:..... ऊर्ध्वमधो वायोः परिवर्त्तः धूलिसमूहस्तेन ननर्त सम इव जात: शैलो गर्त्तः, अन्धो दिक्विसरः...... उष्णो दिवसस्तथैव दोषा तप्तः पुरुषस्तप्ता योषा कूपाः पुष्करिणी गतशोषा, नद्यां धूलिभर............ जलयवस्य जले विचरन्ते तालवृन्तकैः धर्म हरन्ते कुञ्ज-बनीषु भूशं विहरन्ते, स्थिरो न जननिकर:..... शीतलपेयास्वादसमी सुरभितजलशीकरसन्ती मधुररसालास्वादविसी, ग्रीष्मः सौख्यकर:........ ग्रीष्मे भीष्मस्तपप्रसर.....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org