________________
ऋतुगीतानि मुनिधुरन्धरविजयः
(१) वसन्तः
विहरति मलयपवनलहरी कुसुमितकुञ्जनिकुञ्जनिवासी, कुसुमधनुःप्रहरी........... कोकिलकुलकलकूजितकलिते मञ्जुलगुञ्जारवसंवलिते मञ्जरिपिञ्जरिताम्रसुललिते, विरचितचारुचरी....... मधुनिःष्यन्दरचितमधुपर्कः उन्मदसुरभिहताखिलतः विकसितसुमसौरभसम्पर्कैः, सुरभितशैलदरी.......... नीलनवलतरुदलधूतवसना भ्रमराकुलसुमराजीरसना धवलकुन्दकुसुमस्फुटदशना, किं वसन्तशबरी ?...... कः स्वामी को वा न्विह भृत्यः ? मधुरसपानविस्मृतनिजकृत्यः विलसति नगरजनः कृतनृत्यः, उन्मदचित्तकरी....... विहरति मलयपवनलहरी....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org