SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ततः सती लज्जिता सा शङ्करपार्श्वमागता । पृष्टोवाच सा - भगवन् ! तं प्राणमं भवानिव ॥५॥ पुनः शिवो नाऽवदत्तां स्वत्यागं जानती सती । गच्छाम्यहं पितुर्यज्ञे कथयित्वा जगाम सा ॥६॥ शिवभागं नाव दृष्ट्वा यज्ञस्याऽग्नौ पपात सा । ज्ञात्वा शिवो वीरभद्रं संप्रेष्य यज्ञमध्वसत् ॥७॥ स्वयं गत्वा त्रिशूलेन दक्षस्य शीर्षमच्छिदत् । पुनः श्वश्रूप्रार्थनेन त्वजमुण्डमयोजयत् ॥८॥ ततः सत्या जन्म लेभे मैनाहिमवतोहे । पितृभ्यां पार्वती सोक्ता हर्षो जातो हिमालये ॥॥ विवाहोऽस्याः शङ्करेण भविता नारदोऽवदत् । तपसा स प्रसन्नः स्यादतः पुत्रि ! तपः कुरु ॥१०॥ पित्रोराज्ञां गृहीत्वा सा तपसे पर्वतं गता।। ततो देवाः समाधिस्थं शिवमागत्य प्रार्थयन् ॥११॥ तारकासुरं पुत्रस्ते प्रभो ! युद्धे हनिष्यति । विवाहं कुरु पार्वत्या समाधित्यागतो द्रुतम् ॥१२॥ प्रसल: शङ्करोऽवादीद् गच्छ पार्वति ! स्वगृहम् । वरयात्रां गृहीत्वाऽऽशु परिणेष्यामि त्वामहम् ॥१३॥ हिमालयं ततो गत्वा विवाहे देवकारिते । तयोः पुत्रः कार्तिकेयस्त्ववधीत्तारकासुरम् ॥१४॥ नमः शिवपार्वतीभ्यां श्रीकार्तिकेयाय मे नमः । ब्रह्मणा विष्णुना सार्धं प्रसन्नाः सर्वदेवताः ॥१५॥ पीताहालाहलं शम्भु नीलकण्ठं त्रिशूलिनम् । गङ्गाधरं चन्द्रमौलिं नमामि पार्वती-पतिम् ॥१६॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy