________________
(३) वर्षा
प्रावृषि वर्षति वारिधरः श्यामघटा घनघोरा गर्जति दशदिशि विद्युद्वलयः स्फूर्जति, रविरपि निहतकर:..... नृत्यति बर्हिगणस्तनुलोलं पिबति चातको जलकल्लोलं, पूर्णजलं च सर:..... टप-टप् पतति जललवनिकर: सम्-सम् झिल्लीरवोऽतिमुखरः, सान्द्रस्तिमिरभरः..... नभसि समुड्डयतेऽत्र बलाका
आश्रयमीक्षन्तेऽथ वराकाः, वायुः शीततरः..... प्रियपथमीक्षन्ते विरहिण्यः विगलदश्रुसलिलाक्षिगृहिण्यः, दारुणदुःखकर:..... कृषीवलाः समुपात्ता तुष्टिं लब्ध्वा सजलघनाघनवृष्टि, दुर्भिक्षेतिहर:..... कुरुते काञ्चनवृष्टि जलदः जगति जन्तुगणजीवनफलदः, तर्पितसकलधर:..... प्रावृषि वर्षति वारिधरः
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org