SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ दर्शव्याख्याने रत्नश्रीनामके समासोक्तिप्रकरणे - इयमेव चाऽन्यैः ध्वनिरिति कथ्यते - इत्युक्त्या ध्वनिमलङ्कारेष्वन्तर्भावयति । इमौ प्रतीहारेन्दुराज-रत्नश्रीज्ञानौ आनन्दवर्धनात् परवर्तिनावित्यवगम्यते । कर्णाटकेषु कन्नडभाषायां कविराजमार्गनाम्नो ग्रन्थस्य रचयिता श्रीविजयाख्यः कविपण्डितः प्रथते । राष्ट्रकूटवंशस्य नृपतुङ्गस्य राज्ञ आश्रये क्रिस्तीयनवमशतकस्योत्तरार्धे श्रीविजयः कविराजमार्गमारचयदिति (माकिं क्रिस्तशक ८७५) सम्भाव्यते । कविराजमार्गग्रन्थरचनाकाले ध्वन्यालोकग्रन्थस्य रचनाकार्य नाऽवसितमासीदिति च तर्कयन्त्यालोचकाः । परं काव्यतत्त्वविशेषार्थकस्य ध्वनिशब्दस्य उल्लेखः कविराजमार्गे दृश्यते । कथमिदं समपद्यतेति विदुषामाश्चर्यं जागति । ध्वन्यालोकस्योदपात्पूर्वं "ध्वनिकारिका"नाम्नी काचन लघुकाया कृतिराविरासीदालङ्कारिकजगति इति किंवदन्ती तु प्रचलति । परन्तु विद्वांसस्तां न विश्वसन्ति । ध्वन्यालोकात्पूर्वं ध्वनिकारिकाख्यायाः कृतेः सम्भावना नैव युज्यते । ध्वन्यालोके विद्यमानानां कारिकाणामेव ध्वनिकारिका इति व्यवहार आलङ्कारिकजगति - इति विदुषामाशयः । अत एव कविराजमार्गे विद्यमानस्य ध्वनिशब्दस्य काव्यतत्त्वविशेषरूपोऽर्थो नैव घटते । अपि तु लोकव्यवहारे यथा भेरीध्वनिः, वीणाध्वनिः, सोपानमार्गे पतितं तु पात्रं ध्वनि टठं ठं तनुते यथैवेतिवत् केवलं निनाद इत्येवाऽर्थो ग्राह्य इति केषाञ्चित् कन्नडविदुषामाग्रहः । ध्वन्यालोकात् पूर्वमालङ्कारिकजगति काव्यतत्त्वविशेषार्थकस्य ध्वनिशब्दस्य व्यवहारो नाऽऽसीदेवेत्यत्र यद्यस्ति स्पष्टं प्रमाणं तर्हि कविराजमार्गस्थं ध्वनिशब्दघटितं कन्दपद्यं प्रक्षिप्तं ध्वन्यालोकात् परस्तादिति अङ्गीकर्तुमुचितम् । तद्विहाय ध्वनिशब्दस्य अर्थापलापो न युज्यते इति नम्रा निवेदना विदुषामग्रे । काव्यमीमांसका विद्वांसो विदांकुर्वन्तु प्रथमं ध्वनिलक्षणकारिकामनन्तरं च कविराजमार्गस्थं कन्नड भाषानिबद्धं कन्दपद्यम्। यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ - ध्वन्यालोकः । (रचना-क्रिस्तशक ९००) ध्वनियेंबुदळंकारं ध्वनियिसुगुं शब्ददिंदमर्थदे दूष्यम् । नेनेवुदिदनिंतु कमलदोळनिमिषपुगमोप्पितोदिंतिदु चोद्यम् । - कविराजमार्गः ३-२०९. (रचना क्रिस्तशक ८७५. प्रक्षिप्तत्वे तु क्रि० ९०१ अनन्तरम् ।) ध्वनिस्तावदलङ्कारः ध्वन्यते शब्देन अर्थेन दूष्यम् । स्मर्तव्योऽयमित्थं कमलेऽनिमिषयुगं काशतेतरामतीदं चोद्यम् ॥ - इति च्छाया ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy