________________
आस्वादः
अन्तर्भाववादस्य प्रथमोदाहरणम् । यल्लापुरकृष्णशर्मा
भारतीयकाव्यमीमांसाया इतिहासे श्रीमदानन्दवर्धनो विशेषेण उल्लेखमर्हति । क्रिस्तीयनवमशतकस्य अन्ते काश्मीरेषु स ध्वन्यालोकनामकमेकं प्रौढं काव्यमीमांसाग्रन्थमग्रथ्नादित्यवगम्यते । आनन्दवर्धनो ध्वन्याख्यस्य काव्यतत्त्वविशेषस्य आविष्कर्ता इति प्रथते । आलङ्कारिकजगति ध्वनिप्रस्थानप्रवर्तक इत्यपि विख्यातः सः । क्रिस्तीयनवमशतकस्याऽन्ते (क्रिस्तशक ९०० - ९०१) काव्यमीमांसकेषु ध्वनेर्व्यवहार आरब्ध इति तर्कयन्ति ।
ध्वन्यालोकग्रन्थरचनावसरे ध्वनिविरोधो नाम्नाऽपि नाऽऽसीत् । केवलं सम्भावनया कांश्चिद् विरोधान् "भाक्तमाहुस्तमन्ये" इत्यादिनोदलिखत् ग्रन्थकारो ध्वनि नैव विरुणद्धि - इत्यपि केचित् । सत्यम् । ध्वनिविरोधो नाम व्यञ्जनाविषयकं काव्यं काव्यमीमांसकानां केषाञ्चित् अस्वरस एव । ध्वनिप्रस्थानाभिमतं वस्त्वलङ्काररसादिरूपं काव्यार्थं तु न कोऽपि सहदयो विरुणद्धि । अन्तर्भाववादिनामपि व्यञ्जनाविषये केवलं विवादः ।
ध्वन्यलोकरचनासमकालं ध्वनिविरोधो नाऽऽसीदेवेति तु सम्भाव्यते । ध्वन्यालोकरचनादुत्तरं तु "नूतनेयं व्यञ्जना शास्त्रकारैरननुज्ञाता'' इतिकृत्वा व्यञ्जनावृत्तिविषये केषाञ्चिदरुचिः सम्भाव्यते । क्रिस्तीयदशमशतकस्याऽऽदिभागे उद्भटस्य काव्यालङ्कारसारसङ्ग्रहस्य लघुवृत्तौ प्रतीहारेन्दुराजः केषुचिदलङ्कारेषु ध्वनिमन्तरभावयत् । तथा प्रतीहारेन्दुराजस्य समकालिकः सिंहलीयो बौद्धपण्डितः रत्नश्रीज्ञाननामा काव्या
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org