________________
ध्वनिलक्षणे "अर्थः तमर्थं व्यनक्ति" इति "काव्यविशेषः ध्वनिः" इति चांऽशद्वयं श्रूयते । इदमंशद्वयमाक्षिपति श्रीविजयः "ध्वनिस्तावदलङ्कारः" इति । "ध्वन्यते शब्देन" (नाऽर्थेन इति तु अर्थापत्त्या लभ्यते) न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । इत्युक्तदिशा शब्दः केवलमर्थबोधकः अर्थप्रत्यायकः, न त्वर्थः अर्थान्तरप्रत्यायकः इति ध्वन्यते शब्देन इत्यस्याऽऽकूतम् । अर्थेन दूष्यमित्यस्य व्यञ्जनावृत्तेनिराकरणे तात्पर्यम् । अर्थेनाऽपि ध्वन्यते इत्युक्तिः दूष्या इति । (दुष - वैकृत्ये इति, वैचित्ये इति च पाठो दृश्यते दिवादौ । मुह - वैचित्ये इति । वैचित्यमविवेक इति पर्यवसितोऽर्थः) एवं च ध्वनिलक्षणगतमंशद्वयं प्रतिक्षिपति श्रीविजयः इति पश्यामि ।
इदं च कन्दपद्यं मौलिकं प्रक्षिप्तं वेति यथाकथा चाऽस्तु नाम । तद्वक्ता तु ध्वनिलक्षणं कथञ्चिज्जानात्येवेति मे मतिः । यथा ध्वनिलक्षणे अर्थ-शब्द-ध्वनि-पदानि घटकानि दृश्यन्ते, तथैव कविराजमार्गस्थकन्दपद्येऽपि तान्येव त्रीणि पदानि दृश्यन्ते । सन्निवेशविशेषरूपं शब्दसाहचर्यमुभयत्राऽपि समानमेव परिलक्ष्यते । अतः कन्नडकन्दपद्यमिदं ध्वनिलक्षणकारिकया गाढं सम्बध्यते इति वक्तुमुचितम् ।
यदि तु श्रीविजयो ध्वनिलक्षणं नाऽज्ञास्यत् कथं तर्हि स "ध्वन्यते शब्देन" "अर्थेनाऽपी''ति तु दूष्यमित्यवक्ष्यत् ? । यतो हि "अर्थं बुद्ध्वा शब्दरचना" इति हि स्मरन्ति । "अर्थः तमर्थं व्यनक्ति' इति तु ध्वनिलक्षणकारिकात: केवलमवगम्यते नाऽन्यतः । ध्वनिलक्षणार्थमनवगच्छतः कस्यचिदपि वा - ध्वन्यते शब्देन - इति वचनमसम्भव एव । का वा प्रसक्तिरकाण्डे तथा वक्तुम् ।
कविराजमार्गस्थो ध्वनिस्तावदलङ्कारः इतीयमुक्तिर्यदि मौलिकी, तदा इदमेव कन्दपद्यमन्तर्भाववादस्य प्रथमोदाहरणं भवितुमर्हति । प्रक्षिप्तत्वे त्वस्य प्रथमत्वं केवलं हीयते ।
ख्याताः कन्नडसंस्कृतोभयभाषाविदः प्रथितयशसः अनन्यसाधारणशेमुषीका: मान्याः पूज्याश्च मम, केचिद् विद्वांसः गते क्रिस्तशतके (क्रिस्त १९४०-१९९०) ध्वनिस्तावदलङ्कारः -- इत्यस्मिन् कन्दपद्ये ध्वनिनामकमेकमालङ्कारमपश्यन् । तस्य चाऽकस्मात् पुरत उद्भूतस्य ध्वन्याख्यस्याऽर्थालङ्कारस्य किंचिल्लक्षणं किंचिल्लक्ष्यं चाऽपेक्षितम् । कन्दपद्ये द्वितीया पङ्क्तिः ध्वन्यते शब्देन अर्थेन दूष्यमिति । इदं चाऽस्यालङ्कारस्य लक्षणम् । कमलेऽनिमिषयुगमिति लक्ष्यमिति उच्चावचाभिर्युक्तिभिर्विस्तरेण न्यरूपयन् ध्वन्याख्यमलङ्कारं महान्तो विपश्चितः । तेषामेषां विपश्चिदपश्चिमानां पुरतः पुरोभागी भूत्वैव कन्दपद्यस्याऽस्य वास्तविकार्थबुभुत्सया भारतीयकाव्यमीमांसकानां सुधीनां पुरतः प्रस्तुतिरियमुपस्थाप्यते, श्रुत्वा तत्रभवन्तः प्रमाणम् ।
___10, 8th Main Road, III Phase, GIRINAGAR,
BANGLORE-560085
३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org