SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ मर्म नर्म कीर्तित्रयी ग्राहकः (आपणिक) भवता यदिदं रेडियो-यन्त्रं मे विक्रीतं तस्य ध्वनिगुणवत्ताऽतीव श्रेष्ठाऽस्ति, किन्तु अहं तत् परावर्तयितुमिच्छामि यतस्तत्र उत्तमाः कार्यक्रमा न प्रसार्यन्ते !! आपणिकः ...!!... अपूर्वः भवतो यावतीं प्रशंसां करोमि तावत्यल्पैव ! अद्वितीयः अद्य भवता मे महत्त्वं ज्ञातं खलु ? अपूर्वः नैव भोः ! अद्य मयैतज्ज्ञातं यन्मूर्खसमक्षमलीकोच्चारणेऽपि न काऽपि बाधेति !! दग्धः भवान् भवतः सहभागी (Partner) च कथं वाणिज्यं कुरुतः ? दुर्विदग्धः सहभागिना धनं विनियोजितमस्ति, मया त्वनुभवो विनियोजितोऽस्ति, वाणिज्यं च वर्षत्रयावधिकं भविष्यति । दग्धः वर्षत्रयानन्तरं किं भविष्यति खलु ? दुर्विदग्धः मत्पार्वे धनं भविष्यति सहभागिनश्च पार्वेऽनुभवः !! ज्ञः सुज्ञः भवान् पर्यटनसमये किमिति कदाऽपि भवत्पत्नीं न नयति ? कारणद्वयमत्राऽस्ति । प्रथमं तावत् – व्ययोऽ| भवति, द्वितीयं तु - आनन्दो द्विगुणो भवति !! ९० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy