________________
माता
यदाऽहं बालाऽऽसं तदा न कदाऽप्यनृतं वदामि स्म । तर्हि भवत्या तत् कदा प्रारब्धम् ?!
पुत्रः
(चिकित्सकं) महोदय ! पूर्वमहं यत् सर्वमपि गृहकार्य सानन्दं करोमि स्म तदिदानी न कर्तुं शक्नोमि । कृपया मां परीक्षताम् । (परीक्षणानन्तरं)
कृपया स्पष्टभाषया वदतु - किं जातं ममेति । चिकित्सकः भवान् अलसः सञ्जातोऽस्ति ।
इदानीं चिकित्सापरिभाषया तदेव कथयतु, येनाऽहं मम पत्न्यै तद् बोधयितुं शक्नुयाम् !
रुग्णः
माधवः
माता
मातः ! इतः परमहं न कदाऽपि शालायां गमिष्ये । किमिति भोः !? पश्यतु मातः ! अहं पठितुं लेखितुं वा नैव जानामि, शिक्षकश्च मां वदितुं नैवाऽनुमन्यते !!
माधवः
शिक्षकः (विद्यार्थिन) कानि तानि त्रीणि पदानि यानि प्रायशो बहवो विद्यार्थिनः प्रयुञ्जते ? विद्यार्थी अहं नैव जानामि ! शिक्षकः सत्यमुक्तं भवता ।
रमणः
पिता
पितः ! ह्यो भवता यद् गणितसङ्कलनं कर्तुं मे साहाय्यं कृतं तत् सर्वथा मिथ्याऽभवत् । एवं वा ? तदर्थं क्षमा याचे भोः ! न कामपि चिन्तां करोतु, यतो न कोऽप्यन्यः पिता तत्र सफलोऽभवत् !!
रमणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org