SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्वस्मृतिविषयेऽरण्यगमनविषये चोक्तं तेन । तदाऽनया कथितं – ‘एवं वा? तहमपि आगच्छामि । अत्रैव भ्रामं भ्रामं निविण्णाऽस्मि ननु !' । 'तहि झटिति सज्जीभूयाऽऽगच्छतु, एषोऽहं प्रचलितः' इत्यनेन निर्दिष्टम् । सद्य एव द्वावपि प्रस्थितौ वनदिशि । अयं च तस्यै तानि सर्वाण्यपि स्थलानि दर्शितवान् यत्र स पुरा काष्ठानयनायाऽऽगच्छन्नासीत् । क्रमेण च स कूपोऽपि तयोर्दृष्टिपथमागतः । तदाऽनेन देवदर्शनस्य कुठारत्रयस्य च प्राप्तेविषयेऽपि तस्यै कथितम् । तच्छ्रुत्वा विस्मिता सा कूपं द्रष्टुं निकषागता । यावच्च साऽत्र कियज्जलमस्तीत्यादि निरीक्षितुमवनता तावत् सन्तुलनाद् भ्रष्टा सती कूपेऽपतत् । एतद् दृष्ट्वा भीतभीतस्तत्पतिर्धावित्वा कूपकण्ठे स्थित्वा तां विलोकयितुं लग्नो यावत् तावत् सा नैव दृष्टिगोचराऽभवत् । अतः स्वं स्वभाग्यं च निन्दन् स क्रन्दितुमारब्धः । इतश्च तस्य क्रन्दनं श्रुत्वा वनदेवस्य मन आर्टीभूतम् । तेन समागत्य करुणया पृष्टं – 'किं जातं भोः ! ?' अनेनोक्तं – 'प्रभो ! मे प्राणवल्लभा पत्नी कूपान्तः पतिताऽस्ति । तस्या रक्षणार्थं न कमप्युपायं जानामि, न जाने किं भविता? तया विना च जीवनमपि दुष्करं मम' । एतेन वनदेवस्य हृदि दया समुद्भूता, तेन तत्क्षणमेव कूपात् विश्वसुन्दरीकल्पा काचन सुन्दरी समुद्धृत्याऽस्य पुरत उपस्थापिता । तदाऽनेनाऽपि सत्वरमेव तस्या हस्तं गृह्णता कथितं – 'प्रभो ! इयमेव मे प्राणवल्लभा पत्नी, भवत्करुणया प्राप्ता, अनुगृहीतोऽस्मि भवता' इत्यादि। एतद् विलोक्य साश्चर्यं पृष्टं वनदेवेन - 'भो ! मया तु, भवान् पूर्ववदेवाऽत्यन्तं नीतिमान् सज्जनश्चाऽस्तीति - चिन्तयतैवैषा सुन्दरी भवत्पुरत उपस्थापिताऽऽसीत्, किन्तु मन्ये भवान् परावृत्तो जातोऽस्ति, अन्यथैवं नैव सम्भवेत् !' । तदाऽनेनोक्तं – 'प्रभो ! नाऽहं परावृत्तोऽस्ति, न चाऽप्यनीतिमान् सञ्जातोऽस्मि, किन्तु भविष्यच्चिन्तयैव मयैवं कृतम्'। 'काऽसौ भविष्यच्चिन्ता ननु ?' 'प्रभो ! यदा भवता मत्पुरत इयं सुन्दरी समुपस्थापिता तदा मया चिन्तितं यद् - यद्यहमेनां निषेत्स्यामि तदा प्रभुर्मेऽन्यां सुन्दरी दर्शयिष्यति, यदा च तामपि निषेत्स्यामि तदा प्रभुर्मे पत्नीमुपस्थापयिष्यति । यदाऽहं तां स्वपत्नीत्वेन स्वीकरिष्ये तदा प्रभुर्मयि प्रसन्नो भूत्वाऽन्ये द्वे अपि सुन्द? मह्यमेव दास्यति' । 'तत् तु सत्यमेव खलु !' । 'एष एव मे चिन्ताया विषयोऽस्ति प्रभो ! । अहमेनामेकामपि मत्पत्नी पालयितुं तस्या योगक्षेमादिकं च निर्वोढुं काठिन्यमनुभवामि, तर्हि यदि पत्नीत्रयं लभ्येत तदा कथमहं तासां पालन-पोषणं करिष्यामीति भीत्या चिन्तयैव च किञ्चिद् विचारणं कृत्वेमां प्रथमसुन्दरीमेव पत्नीत्वेन स्वीकृतवान् । एवं च कुर्वाणोऽहं किमनीतिमान् असज्जनो वा ? नाऽहं परावृत्तः किञ्चिदपि किन्तु परिस्थितिवशेनैव मयैतत् कृतम् !!' ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy