________________
(५) शीतः
दहति शीतलजलधारा हेमन्ते सुखदा सूर्यातप-वातरहितकारा..... थर....थर....थर...थरकम्पितकाया दुःखदायिशीतलतरुछाया शीतौ कीदृशीयं माया गाढालिङ्गन-वह्निसेवन-तप्तिः सुखकारा..... दग्धतॄणाकुरपल्लवजातः भवति कदाचिद् हिमकणपातः दीनानाथमनुजगणघातः सम्भवन्ति शीता वेवं निर्बलसंहाराः..... शीतास्त्यिक्ताखिलयात्राः श्यामलकम्बलसंवृतगात्राः दुर्बलिनो लीयन्ते रात्रावतिशयालवो लयनं शयने निद्रासुखसाराः..... तैलसुतर्पितसुन्दरदेहाः पौष्टिकपाकैर्वासितगेहाः प्रणयिजनेषु प्रबलस्नेहाः विदग्धनागराः शीतत्तौ किल प्रगाढप्रणयाचाराः..... उष्णं भोज्यम् उष्णं स्नानं दुग्धं प्रवरं सर्पिः स्त्यानं बहुपढ्यिं बहुसम्मानं पुण्यवतामिह सुखसमृद्धिः शीतत्तौ सारा..... दहति शीतलजलधारा.....
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org