SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ स्म 'अस्माकं पक्षस्य ध्येयोद्देशान् समर्थयितुं राज्यस्य दिग्भ्यो विदिग्भ्यश्च समागता अभिमानबन्धवः समाधानेन तिष्ठेयुः । अचिरादेवाऽस्माकं पक्षस्य गण्या नायकाश्चाऽऽगमिष्यन्ति । घटिकाकालेन समावेशकार्यमारप्स्यते । मध्याह्ने सर्वेषां कृते भोजनव्यवस्था कृता । तदनन्तरं जनपदकलाप्रदर्शनं भविष्यति । उत्तरकर्णाटकस्य स्तोकक्रीडा बृहत्क्रीडा राधानाटकं, कोडगुप्रदेशस्य उन्मत्ताटनं, शिवमोग्गस्य पणवमेला, चित्रदुर्गस्य भल्लूकखेला, चामराजनगरस्य गोरवनर्तनं, दक्षिणकन्नडमण्डलस्य भूतकोलः इति नानाकलाक्रीडा भविष्यन्ति । कलाविद आगत्य भवतां मध्य एव वर्तन्ते प्रतिपालनं कुर्वाणाः । जनपदकला न विधानसौधजनस्य, न च वित्तवताम् । अस्माकं पक्षस्य नायकैः प्रोत्साह्यमाना पोष्यमाणा च सा कला । अधःस्तरजनानां कला सा महनीयाः । अद्याऽस्माकं समावेशाय न केवलं पुरुषाः, अपि तु महिलाः, अभिमानिन्यो मातरश्च समागता इत्यस्माकं सन्तोषः शतगुणो जातः । अस्माकं बाहुबलं वर्धितम् । अस्मान् समर्थयितुमेतावन्तो जना आयाताः । अतो विधानसौधे दिनशतद्वयं येऽधिकारं गृहीत्वा स्थिताः, तेषां शून्यसाधनावान् सर्वकारः स्वीयं कायमानं च संगृह्य धाविष्यतीत्यत्र न संशयः । इदानीं महाजनता कस्यैचिदप्यहितघटनायै अवकाशमदत्त्वा समावेशं प्रचालयन्तु " इति । एवं विज्ञापनायां कृतायामपि कमपि स्पष्टमुद्देशं विना तत्र मिलितो जनसमूहो जयकारं धिक्कारं निनादं केकामट्टहासमुन्मत्तखेलां च करोति स्म । सर्वमेलने जाते तत्र शब्दसमुद्र इवोत्पन्नः । — अस्य कोलाहलस्य मध्ये गण्या अतिगण्याश्च आगताः, तन्मध्ये सर्वेषां पुरस्ताद् दृष्टो नीलकारः सिद्धज्जः । नायका गण्याश्च जनसमूहेन सुष्ठु द्रष्टव्या इति उद्देशेन लक्षरूप्यकव्ययेन बृहती वेदिका सज्जीकृता आसीत् । तां परितो नायकानां चित्रपटा विराजन्ते स्म यत्र ते हस्तोत्तम्भनं वाऽज्ञ्जलिं वा प्रदर्शयन्ति स्म । एतादृशीं वेदिकां निर्गतिकभिक्षुकवद् दृश्यमानो सिद्धज्ज आरोहदिति विस्मयस्य कारणमासीत् । तत्र तत्र ‘“तं तन्त्रीवाद्यवाहं वृद्धमवतारयत" इति रवोऽपि श्रुतः । सिद्धज्जस्य कारणादेव वेदिकायां गण्यानां जयकारास्तदा तदा जनै: कर्तव्या विस्मृतप्रायाः । वेदिकायामुपस्थितान् गण्यान्, सभारम्भे जातामस्तव्यस्ततां, जनसागरस्थमविरतं कोलाहलं चाऽजानन्निव सिद्धज्जस्तम्बूराख्यं तन्त्रीवाद्यं स्कन्धारोपितं कृत्वा तन्त्र्यामङ्गुल प्रैरयत् । स्वेन सम्प्रत्याऽऽरभ्यमाणं घनशरणपदं तत्रत्येभ्यो रोचतां वा मा वा, यदि न रोचते तन्ममैव तृप्तयेऽस्तु इत्यालोचयन्निव स नयने निमीलय "हर हर हर हर" इत्युच्चैरगदत् । सिद्धज्जस्य इयं भङ्गी सर्वेषामवधानं घटिकापर्यन्तम् आकर्षत् । निमीलितनयन: सिद्धज्जः स्वान्तरङ्गेऽवतीर्य पूर्वगिरे: मादेश्वरं, चिक्कल्लूरुसिद्धप्पाणिं, बोप्पगौडपुरस्य मण्टेस्वामिनं च स्मृत्वा "अङ्गस्योपरि लिङ्गरूपिणं मङ्गलमहिममहादेवं, स्मरामि तं महादेव ! मतिं देहि करुणया" इति गातुमारभता । - Jain Education International दीर्घकालाभ्यस्तं च ‘“विश्वासवतां गृहे पूरणरूपेण समुच्चलन् देव सिद्धय्यस्वामिन् ! आयाहि, मण्टेलिङ्गय्य ! त्वमायाहि" इति गीतं यथा न केवलं मनुष्या अपि तु देवाधिदेवा अपि शृणुयुस्तथा गातुमारभत । नीलकारसिद्धज्जस्य रागः सावधानतया प्रवहति स्म । तस्येष्टं पदं सर्वेषामपीष्टं भूत्वा धरायां ७७ - For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy