SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ महतः सिद्धप्पाजिस्वामिनः ध्वनिरेव सर्वत्र पूरितः । यथास्थिति तथा जनसमूहो निश्शब्दो जात इत्यत्र कारणान्तरमप्यासीत् । तावत्पर्यन्तं जनाः कस्मैचित् संग्रामाय वयमागता इति भावयन्ति स्म । सिद्धज्जेन श्रावितो नादस्तु पृथगेवाऽऽसीत् । "हर हर हर हर महादेव अङ्गस्योपरि लिङ्गरूपिन् सिद्धय्यस्वामिन् ! त्वमेवाऽऽयाहि। मतिं देहि" इत्यादीनि वाक्यानि तत्रैकमलौकिकं वातावरणमसृजन् । दैवकृतः प्रभावलयः प्रसरन् सर्वेषां मनसि क्रोधं शमयन्, केनाऽप्यज्ञातं कञ्चनाऽध्यात्मभावं स्त्रवति स्म । नीलकारः सिद्धज्जस्तमोराज्यत्वेन प्रसिद्धे शैलमादेश्वरस्याऽरण्यप्रदेशे जातः । तस्य ग्रामो वीथी गृहं मठो वा किं नाऽऽसीत् इति प्रश्नस्योत्तरं दुर्लभम् । निर्दिश्य तत् कथनं कष्टम् । द्वादशवर्षदेशीयस्य तस्य कण्ठो विकासमापत् । तत्र सुश्राव्यो रागो न्यवसत् । तदैव बोप्पगौडपुरस्य मठमागम्य "अहं नीलकारो भक्तो भविष्यामि " इत्युक्त्वा मठार्याद् दीक्षां स्व्यकरोत् । सम्पन्नगृहस्य ज्येष्ठा: हस्तमुद्यम्य यां भिक्षां ददति, तां संविभज्य खादामि, एको न खादामि । अनृतं न ब्रवीमि । कमप्येकेन वाक्येनाऽपि न निन्दामि इति प्रतिज्ञामकरोत् । ततो नीलकारो भूत्वा पूर्वदिशायाः सर्वेषां सतां भक्तोऽभवत् । गतेषु सप्ततिसमेषु वर्षेषु शरणपदानि गायन् भ्राम्यन् यत्र ग्रामे स्थितस्तमेव स्वीयं ग्रामं, यत्र शयितस्तत् स्थलमेव स्वीयं स्थलममन्यत । कस्मिन्नपि ग्रामे मरणं जननं सङ्कटस्थितिर्वा वृष्टिर्वाऽनावृष्टिर्वा यदाऽजायत, तदा सिद्धज्जेन जना: कथां श्राव्यन्ते स्म । मिलिताय जनसमूहाय सिद्धज्जेन श्राव्यमाणा कथेयम् उत्तरस्यां दिशि निवसतस्तिरुपतितिम्मप्पस्याऽनुजो नीलगिरिरङ्गय्यस्तमोमयं राज्यमागत्य सोलिगजनानां नायकस्य बोम्मेगौडस्य कनीयसीं पुत्रीं कुसुममालामनुसृत्य तामुवाह इति । एवमन्या कथा, यस्यां धनशरणमादय्येन कृतः श्रवणराजमानभङ्गः । अपरा च यस्यां धराधौरेयेण मण्टेस्वामिना उत्तरकल्याणादागच्छता लब्धा पुत्रप्राप्ति: यदा राचप्पाणिः, सिद्धप्पाणिः, दोड्डतायम्मा च तस्य शिशवोऽभवन् । अपरा कथा, यस्यां सिद्धप्पाणिः हलगूरुपाञ्चालान् प्रवादेन जित्वा तमोराज्यस्य कृषीवलेभ्यः कृषिकर्मण्यावश्यकमयः आनीतवान् । एतादृशाः प्रसङ्गाः सिद्धज्जस्य जिह्वाग्रे सदा स्थिताः । स रात्रिषु ज्योत्स्नाक्षीरसागरे महतां कथा विस्तार्य कथयन् पुर उपविष्टं जनसमूहं सन्तोषे, वाङ्मनसातीते भाने च उन्मज्जयति स्म । I कर्णाटकराज्यस्याऽधोवर्गीयाणामेव न, अपि तु पश्चात्स्थितानां समूहानां बेङ्गलूरुनगरस्य "कब्बन्पार्क" - उद्याने समागमः साधित आसीत् । अधिकारारूढं पक्षं विधानसौधं च कम्पयदिवाऽऽसीत् समावेशस्योद्घाटनम् । पञ्चशतवर्षेभ्यः पूर्वं पूर्वदिशायाः तमोराज्यस्य सर्वेषामधोवर्गाणामुद्धारस्योपक्रमकारयोः मण्टेस्वामि-मादेश्वरयोः स्मरणेनैव समावेशस्योद्घाटनं भवतु इति नायकानां कार्यकारिणां चोपाय आसीत् । एतदर्थं काननसीमायां कस्यचिद् ग्रामस्य देवालयस्य पुरस्तात् गायन्तं सिद्धज्जं कार्यानेनैवाssनीतवन्तः । क्रोशदूरमपि पद्भ्यामेव गच्छन् सिद्धज्जः कार्यानारोहणे व्याकुलोऽभवत् । तस्य महतो यानस्य विशाले आसने उपविष्टः सिद्धज्ज: "जीवन्नेवाऽहं शवशिबिकायां शायितः किम्" इति त्रस्तः । कार्यकर्तृन् उद्दिश्य सः "बालकाः, कस्मान्मां क्वाऽपि क्वाऽपि नयथ ? अयं मम ग्रामः अत्र मम वीथी । , Jain Education International ७८ For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy