SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 'वाग्देवी'-ति द्वितयमपि विशेषणं सरस्वतीत्वाय कल्पयितुं शक्यं यौगिकत्वं वारयति । अथोज्जयिनीकल्पितयोश्चित्रयोरपि सैव कथा । तत्राऽपि सरस्वत्याः कश्चनाऽपि प्रतीको नास्ति । नास्ति तत्र हस्ते पुस्तकं, न वा वीणा । या च माला साऽपि न स्फाटिकी । काञ्चीशारदाम्बायाः प्रतिमायां शुकोऽपि लभ्यते । उज्जयिनीस्थे चित्रद्वये सोऽप्यनुपस्थितः । कथङ्कारमुच्येत सरस्वत्येषेति ? । अथ पादपीठे दत्तोऽभिलेखो विचार्यः । अस्य समयो वि.सं. १०९१ । स एव भोजस्य । भाषा प्राकृतमिश्रितं संस्कृतम् । उत्कीर्णासु तिसृषु पङ्क्तिषु कानिचिदक्षराणि नष्टानि । अथाऽपि अभिलेख एष एवं कल्पितुं शक्यते - ओं । श्रीमद्भोजनरेन्द्रचन्द्रनगरीविद्याधरी धर्मधीधीरो योऽखिलदेहिनां खलु सुखप्रस्थापनायाऽप्सराम् । वाग्देवीं प्रथमं विधाय जननीं पश्चाज्जिनानां त्रयीमम्बां नित्यफलाधिका वररुचिर्पति शुभां निर्ममे ।। इति । मूललेखस्त्वेवंरूपः (ब्रिटिशम्यूजियम, लन्दन) पं. १ उं । स्त्रीमद्भोजनारंदचंदनगरीविद्याधरी र्मदी () यो.... खलु सुख प्रस्थापना । पं. २ याप्रा वाग्देवी प्रथम विधाय जननी पशा ज्जिनान त्रयीम् अम्बा नित्यफलादिका वररुचि ऊति सु भां नि । ___पं. ३ ममे ॥ इति । सुभा ॥ सूत्रधारसहितसुतम थले अशा इत । विज्ञानिक सिवदेवेन लिखितम् ॥ इति ॥ पं. ४ संवत् १००९१ ॥ अत्र 'रेन्द्रचन्द्र' इति ‘न्दिदचंद' इति लिख्यते । अप्सरःशब्द आकारान्तो घटितः । एतेनाऽस्य भाषा ललितविस्तरादिग्रन्थगतां मिश्रितां भाषामनुहरति । सर्वथा संग्रहालयाधिकृतैर्जनैरस्या अप्सरोमूर्तेः सरस्वतीकण्ठाभरणस्थसरस्वती-'मूर्तित्वेन प्रचारः कृतः ।' तत्रैव विश्वस्तो डॉ. वे. राघवमहोदयोऽस्या भोजनिर्मितत्वमपि जुघोष । उज्जयिनीस्थस्तपस्वी गवेषको वाकणकरस्तु वाग्देवीशब्देनाऽस्याः सरस्वतीत्वं निरचिनोत् । वस्तुत एतदुभयमपि निर्मूलम्, अद्याऽपि बहव्यो गायन्यः विद्याधरीति, वागेश्वरीति च व्यपदिश्यन्ते । तथैव भोजनगर्या अस्या यक्ष्या वाग्देवीति नाम न तु ततः सरस्वतीत्वं सिषाधयिषितम् । रूढिर्योगापहारीणीति नियमनिगडितास्तु न प्रभवामः सरस्वतीत्वमत्र स्वीकर्तुम् । न चाऽपि शृङ्गारप्रकाशारम्भे पश्यामः सरस्वतीम् । ५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy