________________
'ततश्च यदा स प्रत्यागतस्तदा स तत्रैव न्युषित्वा स्ववचनपालनार्थं मामप्याहूतवान् । अतोऽहमपि मे पितृव्यस्य सूट-परिधानं परिधाय निर्यासेन (Scent) च सुवासितो भूत्वा तत्र प्राप्तवान्' ।
'अथ च ताजमहाले एकत्र क्रिस्टलाख्ये प्रकोष्ठे यूरोपीयचित्रकाराणां श्रेष्ठचित्राणि सघोषणं (auction) विक्रीयन्ते स्म । अस्मादृशास्तु तत्क्रयणस्य विचारमपि कर्तुं न शक्नुयुर्यत एकैकं चित्रं सहस्रशो रूप्यकैविक्रीयते स्म । राज्ञो रविवर्मण एकं चित्रं पञ्चसहस्रेण विक्रीतं, केवलमेकमेव चित्रं ननु ! अन्यान्यपि कानिचन चित्राणि त्रिसहस्रेण चतुःसहस्रेण वा विक्रीतानि । सहस्रद्वयान्न्यूनं त्वेकमपि चित्रं नाऽऽसीत् । चित्राणां विषया अपि वैविध्यपूर्णा आसन् । कुत्रचित् सायङ्कालदृश्यं, कुत्रचित् सूर्योदयदृश्यं, क्वचित्तु वनगहनानि चित्रितानि, क्वचिच्च चित्रे हरिणयूथमासीत्' ।
'अथ चाऽहमपि लघुचित्रकारस्त्वासमेवाऽत एतादृशानि सौन्दर्योपेतानि चित्राणि निरीक्ष्योत्तेजितो भूत्वा च घोषणेनाऽहमपि क्रयिकाणां मध्ये सम्मिलितो भूत्वा विक्रयघोषणायां धनघोषणेन भागं गृहीतवान् । (केवलं घोषणमेवाऽऽसीन्मे ध्येयं यतो मम कोषे केवलं पञ्चषष्टिर्धनागारे (Bank) च पञ्चत्रिंशं शतं रूप्यकाणामासीत् । यदि वंश-परम्परागतं गृहमपि विक्रीणीयांस्तदा पञ्चसहस्राणि प्राप्येरन् । किन्तु तत्र च धने ममेवाऽन्येषामपि दायादानामधिकार आसीत् ।)'
मम मित्रेण मे कर्णे जपितमपि – 'यदेवं घोषणं कर्तुं लग्नोऽसि तन्मन्ये लक्षाधिपो जातोऽसि वा? सावधानो भवाऽन्यथाऽऽजीवनं कैङ्कर्येणाऽपि तव मोक्षो न भविता !'
मयोक्तं - 'नैव रे ! अहं तु केवलं मनोविनोदार्थमेव भागं गृह्णामि । मम मर्यादां च नैवाऽतिक्रमिष्ये' ।
'एवमेव च बहूनि चित्राणि विक्रीतानि । तावतैकं नूतनं चित्रं विक्रयणार्थं फलके स्थापितम् । तस्मिन् कश्चन रक्तवर्णमुखो मनुष्यश्चित्रित आसीत् । प्रदर्शितमात्र एव तत्र केनचित् स्वर्णाभोपनेत्रधारकेन सज्जनेनोच्चघुष्टम् – 'एकसहस्रं रूप्यकाणि' ।' _ 'एतन्निशम्यैव सर्वे स्तब्धा जाताः । यत इतः पूर्वं तु यानि चित्राणि प्रदर्शितानि तेषां प्रारम्भः शतेन शतद्वयेन वा जात आसीत् । ततः शनैः शनैस्तानि सहस्राणां द्विकं त्रिकं पञ्चकं वा प्राप्तान्यासन् । (तावन्मूल्यवृद्धौ तु ममाऽपि सिंहभाग आसीत्, मध्ये मध्ये किञ्चिद्घोषणेन ! ।) किन्तु चित्रेऽस्मिस्तु प्रदशितमात्र एव यत्तेन सज्जनेन सहस्रमुख़ुष्टं तेन समग्रेऽपि प्रकोष्ठे निःशब्दता प्रसृता । पञ्चषान् क्षणान् यावन्न केनाऽपि किमप्युक्तम् । तावता यद्यपि ममाऽन्तरिच्छा नाऽऽसीत् तथाऽपि मम मुखान्निःसृतं सहसा - 'सार्धं द्विसहस्रम् !!' इति । इदानीं तु स्मशानेऽपि यादृशी न स्यात् तादृशी शून्यता वातावरणे प्रसृतेव' ।
'अथ ममाऽपि भानं जातं यन्मया कीदृशी मूर्खताऽऽचरिताऽस्तीति । मम हृदयं वेगेन स्पन्दितुं प्रारभत । मम दृष्टिस्तस्मिन् सोपनेत्रे ततश्चोद्घोषके भ्राम्यति स्म । तदोद्घोषकेणाऽपि प्रथमं मयि ततश्च सोपनेत्रे ‘स किञ्चिद् वर्धयेत्' इत्याशया दृष्टिर्निपातिता । किन्तु सोपनेत्रस्य तु मन्ये जिद्वैव कीलिता जातेव
** तदात्वे तु पञ्चसहस्रमपि हि दुरासदमासीत् ।
८५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org