________________
विनोदकथा
चित्रम्
मुनिकल्याणकीर्तिविजयः
नन्विदानीं तु स युग एव व्यतीतः । अधुनां तु गालिब-महोदयस्य शब्दानेव स्मरामः केवलं - "दिल ढूंढता है फिर वही फुर्सत के रात-दिन !!"
कदाचित् कस्यचिज्जन्ययात्रायां कुत्रचिद् ग्रामे गताः स्याम । तत्र च रात्रौ कस्यचिद् विशालस्य निम्बतरोरधस्तात् खट्वोपरि मसृणमसृणा तूलशय्या क्षीरधवलास्तरणेनाऽऽस्तीर्णा स्यात् । तदुपरि च जन्ययात्रायां समागता विशिष्टप्राघूर्णका यथा - चिकित्सको, न्यायवादी, प्राध्यापको, निवृत्तसैनिक - इत्यादयो विविधान् वार्तालापान् कुर्वाणाः स्युः । यथा यथा च रात्रिर्व्यतीता स्यात् तथा तथा वार्तारसोऽपि वृद्धिङ्गत एव भवेत् । तदात्वे च श्रुता वार्ताः प्रसङ्गाश्च न कदाऽपि विस्मृता भवेयुः ।
तस्यां रात्रावपि विविधैर्जनैर्विविधाः प्रसङ्गा अनुभवाश्च वर्णिताः । वार्तानां मुख्यविषय आसीत् - आपत्तितः स्वरक्षणम् । कश्चन समुद्रतटे सञ्जाताया आपत्तेर्व्यतिकरं कथितवान्, अपरश्चाऽभयारण्ये विहर्तु गतः सन् व्याघ्राक्रमणात् कथं रक्षित इति वणितवान् । केनचित् स्वगृहे लग्नादग्नेः कथं रक्षिताः सर्वे इति निरूपितं, केनचिच्च द्वितीयविश्वयुद्धकाले प्रशान्तमहासागरे प्रवसतां तेषां नौका जर्मनदेशीयसबमरीनाक्रमणात् कथं रक्षिता इत्यस्य रोमोद्गमकं वर्णनं कृतम् ।
'एतत् सर्वं तु स्यान्नाम, किन्त्वेकदाऽहं मुम्बईमहानगरे ताजमहालउपाहारगृहे यामापत्तिं सम्मुखीकृतवान् तदग्रतो भवतामापत्तीनां न काऽपि गणना' - इति कश्चन सुरूपः सज्जनः स्मयन्नुक्तवान् । विलक्षणं तत्स्वरमाधुर्यं गाम्भीर्यं च श्रुत्वाऽन्ये इवाऽहमपि तद्वृत्तं श्रोतुमुत्कर्णोऽभवम् ।
'ताजमहालः !?' कश्चनाऽऽश्चर्योद्गारं प्रकटितवान् ।
'आम् । मुम्बईनगरे एपोलो-नौकाशयस्य पुरतो विद्यमानमस्ति तत् । ममैकः सुहृद् आङ्ग्लदेशात् समागतः सन् तत्रस्थे पथिकगृहे न्युषितवान् । तस्य चित्रसङ्ग्रहणेऽत्यधिकाऽभिरुचिरासीत् । मयाऽपि च चित्रशालायां पठित्वा श्रेष्ठता प्राप्ताऽऽसीत् । ततस्तस्य पितामहस्य पूर्णचित्रमालेख्य मया लण्डननगरस्थे तस्य गृहे प्रेषितमासीत् । एतेन सोऽतीव प्रसन्नतां प्राप्य मां पत्रेण कथितवानासीद् यद् – 'यदाऽहं भारतं प्रत्यागच्छेयं तदा भवते ताजमहाल-उपहारगृहे *सन्धि दास्यामि' ।'
* Party.
८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org