________________
स सर्वथा तूष्णीमभवत् । ततश्चोद्घोषको घटीं दृष्ट्वा सहसैवोक्तवान् – 'सार्धं द्विसहस्रमेकवारं द्विवारं ! त्रिवारम् !!' सहैव हस्तस्थं काष्ठमयं द्रुघणं फलके आस्फालितवान्' ।
'श्रुत्वैतत् ममाऽपि वदनं तु स्यूतमिव जातमेव, हृदयमपि मन्ये स्पन्दनात् स्खलितमिव । धमनीषु रक्तप्रवाहोऽपि स्थगित इव । समीप एव स्थितेन मम सुहृदोच्चैः कथितमपि – 'किं कोऽप्यग्रे वर्धितुमिच्छति वा ?' किन्तु सर्वेऽपि तूष्णीमेव स्थिताः, ननु मूका इव सञ्जाताः । न कस्याऽप्योष्ठपुटौ स्पन्दलेशमपि प्राप्तौ ।
'पाशनिगडितोऽहं खलु, !' मया चिन्तितम् । 'कोषे पञ्चषष्टिर्धनागारे पञ्चत्रिंशं शतं गृहस्य च पञ्च सहस्राणि, तान्यपि पञ्चानां दायादानाम् ! एवमपि यतः कुतोऽपि धनमृणेनाऽपि याचित्वा सञ्चिनुयां तथाऽपि सार्धं द्विसहस्रं तु न स्यादेव । तथैनद् रक्तवर्णीयमुखस्य चित्रं क्रीत्वाऽपि किं वा करवाण्यहम् ?'
-
'तदा मया स्मृतं यन्मे मित्रमप्यत्रैवाऽऽसीत् । तं द्रष्टुं मया परितोऽवलोकितं किन्तु स न कुत्राऽपि दृष्ट: । अहो ! सोऽपि गतवान् वा ! । नैव नैव, स तु मत्तः किञ्चिद् दूरं स्थित्वा मुखं च करवस्त्रेण पिधाय हसन्नासीत् । एतद् दृष्ट्वा तु मम मनः सर्वथा विचलितम् । इतो मे मस्तकोपरि वज्राघातो जातोऽस्ति ततश्चाऽयं हसति ? किन्तु किं वा क्रियेताऽधुना ? निर्वाणदीपे किमु तैलदानम् ? अथवा सहसा हि कृतं कार्यं कथं मा भूद् विपत्तये ? इति विचारयन्नहं स्थितः ।'
'मत्क्रीतात् तच्चित्रादनन्तरं तु बहूनि चित्राणि प्रदर्शितानि सघोषणं च विक्रीतानि, किन्तु सशपथं वदामि यन्मया तेषामेकतमदपि न विलोकितम् । वस्तुतोऽहं शून्यमनस्को जातो येन सार्धं द्विसहस्रमृतेऽन्यत् किमपि न विचारयामि स्म । 'को वा मे ऋणं दास्यति ? वचनपत्रं (Promissory note) यदि दद्यां तर्हि को वा मे वचनं मंस्यते ? अथवा तमुद्घोषकं गत्वा कथयेयं - कृपया क्षम्यताम्, अहं धनं दातुं न समर्थ - इति, किन्तु कथं कथयेयं ? यतः पूर्वमपि विविधचित्राणां घोषणेषु सहस्रं यावत् त्वहमपि घोषितवानासम् !'
'उद्घोषको हि मेऽधुना शैक्सपियर - रचित* नाट्ये वर्णित: शायलोक् इव प्रतिभाति स्म यः शरीरादेककिलोमितं मांसं कर्तयेत् । ननु सर्वा अपि दिशो मत्कृतेऽवरुद्धा जाताः । सर्वतो घोरान्धकारो दृश्यते इव । तथा पादयोरधस्तादपि दृढं कुट्टिममासीदतो भूमिरपि मार्गं दातुं सिद्धा नाऽऽसीत् खलु !'
'एवं चिन्तयतो मे हि सर्वेषामपि चित्राणां घोषणं विक्रयणं च समाप्तं जातम् । इदानीं तु यैरपि चित्रं क्रीतमासीत् ते सर्वेऽपि धनप्रदाने चित्रप्रेषणसूचनार्थं च व्यस्ता अभवन् । तेषां सर्वेषां पङ्क्तावहमन्तिम आसम् । तत्र मां दृष्ट्वा मे सुहृद् मुखं करवस्त्रेण पिधाय पुनरप्यागतः । किन्तु सहायार्थमागत इति मा चिन्तयन्तु ! स तु मे पीतैरण्डतैलमिव मुखं दृष्ट्वा बलाद् हास्यं निगृह्णन् धावितवांस्ततः । इयमापत्तिस्तु मयैवैकलेन सम्मुखीकर्तव्याऽऽसीत् । अहं मनस्येव स्वं क्रोशन् गालिं ददामि स्म । यदि कश्चन लुण्टाक:
* The Merchant of Vennice. * * तदात्वे तु पञ्चसहस्रं हि दुरासदमासीत् ।
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org