________________
"अजर्घा यो न जानाति यो न जानात्यचर्करीत् । अचीकमत न जानाति तस्मै कन्या न दीयते । " वराकाः कन्यावरणाभिलाषुका युवकाः पूर्वं तु “टिड्ढाणञ्द्वयसच्छुटूङसिङयोस्तिप्तस्सिसिप्थस्थमिब्वस्मस्ता हशि च ष्टुनाष्टरत इञ् शश्छोट्यचोन्त्यादिटि । लोपो व्योर्वलि वृद्धिरेचि यचि भं दाधाध्वदाप् छे च टेरित्यब्दान् बहुलान्नयन्ति कतिचिच्छब्दान् रटन्तः कटून् ।”
तदनन्तरं अजर्घा, अचर्करीत् इत्यादीन् प्रयोगान् रारटन्ति, सर्वमपि यौवनं क्षपयन्ति, तदाऽपि श्वशुरायमाणा वैयाकरणास्तेभ्यः कन्या न प्रयच्छन्ति । "
भव्येशोऽसूचयद् यद् एतादृशी सुदीर्घा सूची ईदृशानां कठिनानां दशगणीप्रयोगाणां निर्मीयमाणाऽऽसीत् अकारादिक्रमेण । अजर्घा, अचर्करीत्, अचीकमत इति त्वकारादयस्त्रय एव प्रयोगाः सूचीप्रारम्भगताः सन्ति । एतान् साधयन्तो बहवो युवकाः प्राणानत्यजन्, अतः परस्तात्सूची न निरमीयत, अन्यथा न जाने कति किशोरा आत्मघातमकरिष्यन् ।
उपमन्युः प्रोवाच - " सेयं सूच्यप्यनुष्टुभि निर्मीयमाणाऽऽसीत् !! छन्दस्तु तदाऽप्येतान् वैयाकरणान् नाऽत्यजत् !!! तृतीये चरणे छन्दोभङ्गोऽभूदिति कथान्तरम्" । भव्येशेनोत्तरितं "छन्दःसु सूचीनिर्माणं तु वेदकालादारभ्यैव प्रवृत्तमासीत् । न केवलमनुष्टुभि, गायत्रीप्रभृतिषु सर्वेषु च्छन्दःसु" ।
चातक एतदुपरि सविनोदमुदाहर्तुमारभत "उपमन्यो भगवन् ! वैदिकानां भवतां छन्दोनिबन्धनपाटवस्यैकमुदाहरणं प्रस्तौमि किम् ? भवतामेकं छन्दः श्रूयते "त्रिष्टुप्" । एकदशाक्षरा वृत्तिरियम् । केनचन वेदाभ्यासजडेन शास्त्रकारेण विवेचनं कर्तुमिष्टम् ऋग्यजुःसामाथर्वणां वास्तविकं तत्त्वं किमस्तीति । सर्वं वस्तुजातं, आन्तरिकी मूर्तिः, ऋग्रूपा, गतितत्त्वं यजुः स्वरूपं, परिधिः, आयामाः, तेजोरूपो विस्तारः सामरूपं भवति, सर्वेषामेषां प्रकटनं, व्यक्तं रूपं, निर्मितिर्वा अथर्वस्वरूपा । इदं स्पष्टीकर्तुं तेन कथयितुमारब्धम्
-
-
"ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः ।" त्रिष्टुप् छन्द इदम् ।
—
मया सूचितं यद् वेदोत्तरकालिके छन्दः शास्त्रे तदिदमेव शालिनीच्छन्दः । किन्तु चातक उवाच यत्तस्य च्छन्दसस्तु दुर्दशा ऋषिवर्येण द्वितीय एव पादे कृताऽतः शालिनीत्वं भग्नं, केवलं त्रिष्टुप्त्वमवशिष्टम् । परं त्रिष्टुभ्यपि पादपूर्तिर्न जाता - द्वितीये पादे प्रोवाच स "सर्वा गतिर्याजुषी ।" अर्थात् सर्वा मूर्तय ऋक्स्वरूपाः, गतिश्च यजुः स्वरूपा । केवलं सप्ताक्षराणि ? अतः पादपूर्तये लौकिकानां 'च, वै, तु हि' इत्यादीनामवष्टम्भकानां यथा प्रयोगो भव्येशप्रभृतिभिः क्रियते तथा तेन "ह" "शश्वत्" इत्यादीनां प्रयोगं कृत्वा व्यलेख सर्वा गतिर्याजुषी हैव शश्वत् । ह; एव; शश्वत् । पादपूर्तिः समजनि । सम्प्रति तृतीये चरणे किं स्यात् ? सर्वं तेजः सामरूप्यम् । केवलमष्टाक्षराणि ? तस्य पादस्य पूर्तये पुनरपि 'ह'
४२
Jain Education International
-
-
For Private & Personal Use Only
www.jainelibrary.org