SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सदृशानामपि मानसेषु गीतिगानस्य तादृशं व्यसनमासीद् यद् "भज गोविन्दं" - स्तोत्रे तैर्गीतविधयैव संसारस्य निःसारता प्रतिपादिता । वैराग्योज्जृम्भणायाऽपि तैर्मनस्तर्पिणी गीत विधैव समादृता । विलोक्यतां मोहमुद्गरः चर्पटपञ्जरिकापरनामधेयः ।" ___उपमन्युः श्रौतायनो भव्येशभवनस्य तस्मिन् प्रकोष्ठे लम्बमानमादिशङ्कराचार्यचित्रं सङ्केतयन्नूचे - एते तु महानुभावा यावन्तो विरक्ता आसंस्तावन्त एव काव्यरसरक्तहृदया अभूवन् । शिखरिणीबद्धामेषां सौन्दर्यलहरी पठथ, सर्वमिदं ज्ञास्यथ । अपरं च – मयोक्तमेव यद् देशस्याऽस्य धरित्री आजन्मन एव छन्दश्छटानुरक्ताऽस्ति । इदमेव तु कारणं यदत्र न केवलं श्रुतिगतं विज्ञानं ब्रह्मविद्या वा वैदिकेषु च्छन्दःसु निबद्धाऽपि तु समग्राण्यपि शास्त्राणि छन्दोबद्धान्येवाऽभूवन् । सर्वं छन्दसा व्यलेख्यत, आयुर्वेदोऽपि छन्दसा, ज्योतिषमपि छन्दसा, धर्मशास्त्रं छन्दसा । सर्वा अपि स्मृतयोऽनुष्टुप्छन्दसि निबद्धाः प्राप्यन्ते, सर्वाणि पुराणानि । वेदस्य तु नामधेयमेव छान्दसम् । अनुष्टुप्छन्दो यदि नाऽभविष्यत् सर्वमपि वाङ्मयं नितान्तमसंभवमभविष्यत् । अथ यदि कश्चनाऽनुष्टुप् छन्दो विलोपयेत्, सर्वं वाङ्मयं तत्क्षणमन्तर्हितं भवेत् । चातको यद्यपि चिकथयिषुरभूद्यत् सूत्रसाहित्यमर्थात् शास्त्रसाहित्यं तु सारवति, सस्तोभेऽनवद्ये गये एव निबद्धमासीत् किन्तु परस्ताद्यदवधि अनुष्टुप् छन्दोऽवततार सर्वमपि शास्त्रजातमनुष्टुभि समवतीर्णं, किन्तु मध्य एव भव्येशभट्टः सविनोदमुदगिरत् – “सर्वमिदं वाल्मीके: कृत्यम् । न जाने कीदृशं तद्दिनं स्याद् यदा वाल्मीकिः "मा निषादे"त्यादि शापमुगिरन् शोकं श्लोकत्वं निनाय, तदारभ्य सर्वं वाङ्मयजातमनुष्टुभं सर्वात्मनाऽपरिहरणीयं मन्यते स्म । वेदादितरत्र छन्दसामयमवतारः सर्वाणि शास्त्राण्यनुष्टुप्सागरे न्यमज्जयत् । ज्योतिर्नटविटगायकभिषगादयः सर्वेऽनुष्टुभमेव ब्रह्मास्त्रं मन्वानास्तस्यैवाऽभ्यासमकुर्वन् ।" __ चातकैन साटोपमुदीरितं - "भ्रातर्भव्येश ! भवादृशैर्भाषाशास्त्रिभिरपि छन्दोबन्धमजानानैरपि छन्दसां निर्माणस्य न जाने कीदृशं व्रतं गृहीतं यल्लघुकौमुदीकारेण वरदराजेन मङ्गलाचरणायाऽनुष्टुप्छन्दसः प्रयोगं कृत्वा किंभूतकिमाकारकमद्भुतं पद्यं निर्मितम् – “नत्वा सरस्वती देवीं शुद्धां गुण्यां करोम्यहम् ।" किमिदं भवति शुद्धां गुण्यामिति ?" भव्येशेनोक्तं - "किं करोतु वराको वरदराजः ? यदि छन्दोभङ्गोऽभविष्यत् तर्हि त्वादृशाः कविपुङ्गवा उपाहसिष्यंस्तम् । अतो वराकेन पादपूर्तिः कृता । 'अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्' - इति तु श्रुतमेव स्याद् युष्माभिः" । उपमन्युः श्रौतायन उदगिरत् - "भव्येश ! तादृशा वैयाकरणा यानत्याचारान् भारतीये समाजे कृतवन्तस्तान् किमिति न स्मरसि । 'प्रथमे हि विद्वांसो वैयाकरणा' इति न जाने किमिति कदा केन कथितं यदेभिर्वैयाकरणैर्व्याकरणरटनं सर्वेभ्यः संस्कृतच्छात्रेभ्योऽनिवार्यमापादितम् ।" मया पादपूर्तिः कृता - "ने केवलं संस्कृतच्छात्रेभ्यः, अपि तु सर्वेभ्यः किशोरेभ्यो व्याकरणज्ञानं देशेऽनिवार्यमासीत् । न श्रुतोऽयं श्लोकः ? ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521029
Book TitleNandanvan Kalpataru 2012 11 SrNo 29
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy