________________
कदाचिदेतादृशः कालोऽप्यागच्छेत्, यदा सर्वत्र घोरान्धकार एव व्याप्नुयात्, आशाया न किमपि चिह्न दृश्येत, भार-उद्विग्नता-कालुष्यैर्हदयं त्रस्तं स्यात्, आनन्दः सुखमाशा च. बाष्पवदुड्डीयेरन्, तदा सुखे व्यतीतान् दिवसान् न विस्मरेत यूयम् ।
अहमेवमेव कथयामि - यद्, बहुप्रयत्नैर्युष्माकं सुखे व्यतीतदिवसानां स्मृति मार्गयेत, तदा सर्वमपि शुभमासीत्, गगने न कोऽपि मेघ आसीत्, युष्माकं समीपे कोऽपि नाऽऽसीत्, कस्यचिद् वात्सल्येन यूयं प्रसन्नाः स्यात तत् कदाचिदद्य युष्माकं जीवने न स्यात्, अत एव व्यतीतान् दिवसान् संस्मरेत यूयम् ।
एतादृशान् रम्पान् दिवसान् न कदाऽपि विस्मरेत, यदा विस्मरेत तदा न कदाऽपि प्रत्यागमिष्यन्ति ते, आनन्दपूर्णविचारैर्मनः प्रफुल्लितं कुरुत, हृदयं क्षमा-स्नेह-सारल्यैश्च संभरेत, गृहं हास्यस्यौघैः प्रसन्नीकुरुत, पश्चात् पश्यत, सर्वमपि शनैः शनैः सुखरूपं भविष्यति ।
६३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org