________________
बम्लहरीगीतम् (यक्षगानम्) प्रा. अभिराजराजेन्द्रमिश्रः (हुडुक्कां वादयन्तो द्वौ गायकौ) शृणुत शृणुत नवकथाप्रबन्धम् । विशदीकृतजनजनसम्बन्धम् ॥ नवसरुचिरं मङ्गलमूलम् । श्रितहरि धृतकालिन्दीकूलम् ॥ कलियुगसंस्कृतिदर्शनदक्षम् । स्वनयनदृष्टं किञ्च समक्षम् ॥ नाऽत्र किमपि कल्पितमतिगूढम् । सर्वमहो सर्वैर्नियूंढम् ॥ अतिविलक्षणा नवयुगगाथा । जनता यां विज्ञाय सनाथा ॥ तामभिराजक विस्सन्धत्ते । आत्मानं कृतिनं नु विधत्ते ॥ भागवतीयं रागवतीयं सरस्वतीयं प्रियङ्करी । बबं बबंबं बं लहरी !! शिवगाथेयं शिवकरी ॥ १ धुवा ॥ गृहे - गृहेऽद्य वसति कैकेयी । मन्थरया हृतधीरविनेयी ॥ कुलिशहृदयदारिणी नृशंसा । कूतरघुपतिवनवासाशंसा ॥ स्वतनयसुखसाधनमोहान्धा । परसुतसौख्यसमुद्ववन्ध्या ॥ राघवहृदयपरिचितौ मूढा । हतभाग्या प्रहेलिका गूढा ॥ सजलजलदवर्षाऽशनिपाता । मङ्गलसन्ततिजनितनिपाता ॥ यौवराज्यवृत्तं लघयन्ती । ऋजुहृदयं दयितं छलयन्ती ॥ योऽभूद् रामकथापथशूला । प्रावूट्सरिदिव भक्षितकूला ॥ तत्सन्ततिरद्याऽपि कृतघ्नी । गृहे-गृहे लक्ष्यते शतघ्नी ॥ क्लृप्तविपत्तिर्हृतसम्पत्तिर्दुर्विज्ञप्तिर्लयङ्करी बबं बबंबं बं लहरी ! शिवगाथेयं शिवङ्करी ॥ २ ॥ नैव रोचते देशी शिक्षा । महिता जाता महतां भिक्षा ॥ पब्लिकविद्यालये पठन्तः । भारतीयभावनां हसन्तः ॥ गले सलीबाकृतिं दधन्तः । आङ्ग्ली भाषां द्रुतं लपन्तः ॥ मङ्गल-बुध-गुरु-शुक्र-शनिज्ञाः । नैव चैत्र-वैशाखादिकविज्ञाः ॥
१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org