Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 21
________________ विशेषा० ॥४१९॥ यदि च मूरिरेतद् ब्रूयात्- अविशुद्धनयमतेन श्रुतलब्धिरपि भावश्रुतमुच्यते । ततश्चानुपयुक्तेऽपि लब्धिसंपन्ने जीवे तल्लब्धिरूपं श्रुतं लब्धिश्रुतं भावश्रुतमेवाऽङ्गीक्रियते, अन्यत्तु लब्ध्यादिशून्यस्य यत् श्रुतं तद् द्रव्यश्रुतम् , इति न तस्य निर्विषयतेति भावः। हन्त ! तीनुपयुक्तस्य पठतो वक्तुः किं द्रव्यश्रुतम् ?, तस्यापि श्रुतलब्धिसद्भावतो भावश्रुतप्राप्त्या तदवस्थैव द्रव्यश्रुतस्य निर्विषयतेति भावः । न हि श्रुतलब्धिरहितः कोऽपि पठति । तस्मादेतदपि वाङ्मात्रत्वाद् न किञ्चिदिति ॥ ८८२॥ अथाचार्यः प्रतिविधानमाह आगम सुओवओगो सुद्धो चिय न चरणाइसंमिस्सो। मीसेऽवि वा विवक्खा सुयस्स चरणाइभिन्नस्स ॥८८शा इह तावत् सर्वस्याप्यस्य प्रक्रमस्य भावार्थ उच्यते- परेण निषेधवचनं नोशब्दमवगम्य पूर्वपक्षः कृतः । आचार्यस्तु मिश्रवचनं नोशब्दं चेतसि निधाय प्रतिविधत्ते । मिश्रवचनेनापि नोशब्देन द्रव्यश्रुतम् , आगमतो भावश्रुतम् , नोआगमतो भावश्रुतं चेत्येतत्रितयं । कथं पृथगुपपद्यते ? इति चेत् । उच्यते-अनुपयुक्तस्य श्रुताध्येतुस्तावद् द्रव्यश्रुतं 'आगम त्ति' एकदेशेन समुदायस्य गम्यमानत्वादागमतो | भावश्रुतमुच्यते । किम् ?, इत्याह-शुद्ध एव श्रुतोपयोगः, न चरणादिमिश्रः । यदि वा, चरणादिमिश्रेऽपि श्रुतोपयोगे तद्भिन्नश्रुतोपयोगस्य विवक्षा क्रियते । इदमुक्तं भवति-चरणादिमिश्रमपि श्रुतोपयोगं भिन्नं विवक्षितत्वादागमतो भावश्रुतमुच्यत इति ॥ ८८३ ।। तर्हि नोआगमतो भावश्रुतं किम् ?, इत्याह चरणाइसमेयम्मि उ उवओगो जो सुएन तओ समए। नोआगमो त्ति भण्णइ नोसद्दो मीसभावम्मि ॥८८४॥ चरणादिसमेते तु श्रुते यश्चरणादिमिश्र उपयोगस्तकोऽसौ समयप्रसिद्धया नोआगमतो भावश्रुतमुच्यते । नोशब्दश्चेह मिश्रवचन इति । निषेधवचनस्तु नोशब्दोत्र नेष्यते, यतोऽसौ सर्वनिषेधवचनो वा स्यात्, देशनिषेधवचनो वा ? ॥८८४ ।। तत्र सर्वनिषेधवचनत्वे नोशब्दस्य दोषमाहसव्वनिसेहे दोसो सव्वसुयमणागमो पसज्जेज्जा । होज्जा वाऽणागमओ सुयवज्जमणागमसुयं तु ॥८८५॥ , आगमतः श्रतोपयोगः शुद्ध एवं न चरणादिसंमिश्रः । मिश्रेऽपि वा विवक्षा श्रुतस्प चरणादिभिशस्य ॥ ३ ॥ २ चरणादिसमेते तूपयोगो यः श्रुते सकः समये । नोआगम इति भण्यते नोशब्दो मिश्रभावे ॥ ८८४॥ ३ सर्वनिषेधे दोषः सर्वश्रुतमनागमः प्रसज्येत । भवेद् वाऽनागमवः श्रुतवर्जमनायमचतं तु ॥ ८८५ ॥ ॥४१९॥ TOTO toleo Jain Education Internatio For Donald Use Only ENwww.jaineltrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202