Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 172
________________ विशेषा. वृहद्वृत्तिः। ॥५७०॥ द्वितीयनियुक्तिगाथाभावार्थमाह दासत्तं देइ अणं अइरा मरणं वणो विसप्पंतो । सव्वस्स दाहमग्गी दिति कसाया भवमणंतं ॥१३११॥ __स्तोकमपि ऋणं क्रमेण वर्धमानं दासत्वं ददाति, यथा- काचिद् वणिग्दुहिता गृहीतव्रतस्य निजभ्रातुरागतस्य प्रतिदिनं कर्षवृद्ध्या हट्टात् तैलस्य कर्षमानीय दत्तवती । साधुसेवाव्याक्षेपाच्च तया वणिजोऽसौ न दत्तः । वर्धमानश्च क्रमेण घटादिसंख्यां प्राप्तः। तया च कासकर्तनमात्रेणैव जीवनादसौ दातुं न शकितः । ततस्तस्यैव वणिजः सा ऋणदासी संजाता । अन्यदा चागतेन तेनैव बन्धुसाधुना विज्ञातस्तद्वयतिकरः । कृता च तस्य वणिजो देशना । मोचयित्वा चेयं ग्राहिता दीक्षाम् । इत्येवं दासत्वदायकं स्तोकमपि ऋणम् । स्तोकोऽपि च व्रणशेषोऽपथ्यादिकमासाद्य विसर्पन्नन्तर्बहिश्च प्रसरनचिराद् मरणं प्रयच्छति । अग्नेश्च लवोऽपि मार्गादौ पतितस्तृणादिके लग्नः परंपरया क्रमेण प्रसरन् समस्तमपि ग्राम-नगरादिकं निर्दहति । एवं स्तोकशेषा अपि कषायाः कुतश्चिद् निमित्ताद् वृद्धिमुपगच्छन्तोऽनन्तं भवमुपकल्पयन्तीति ॥ १३११ ॥ वक्ष्यमाणगाथाप्रस्तावनार्थमाह ओवसम सामाइयमुइयं खाइयमओ पवक्खामि । सुहममहक्खायं पि य खयसेढिसमुब्भवं तं च ॥१३१२॥ तदेवमौपशमिकं सामायिक चारित्रमुक्तम् , इदानी क्षायिकं तदुच्यते । इत्येका पातना । अथवा, सूक्ष्मसंपरायचारित्रं यथाख्यातचारित्रं चोपशमश्रेण्याश्रितमुक्तम् , इदानी क्षपकश्रेणिसमुद्भवं तदेवाह ॥ इति गाथाद्वयार्थः ।। १३१२ ॥ . अण-मिच्छ-मीस-सम्मं अट्ठ नपुंस-त्थिवेय-छकं च । पुमवेयं च खवेइ कोहाईए य संजलणे ॥ १३१३ ॥ इह क्षपकश्रेणिप्रतिपत्तोत्तमसंहननोऽविरत-देशविरत-प्रमत्ता-अमत्तानामन्यतम उत्पन्नविशुद्धपरिणामो विज्ञेयः । तत्र पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येता प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्यानोपगता एव । क्षपणक्रमश्चायम् , तद्यथा-प्रथममन्तर्मुहूर्तेना , दासत्वं ददाति फरणमचिराद् मरण वणो विसर्पन् । सर्वस्य दाहममिददति कषाया भवमनन्तम् ॥ १३ ॥ २ भीपशामिक सामायिकमुदितं क्षायिकमतः प्रवक्ष्यामि । सूक्ष्ममयाख्यातमपि च क्षयश्रेणिसमुजर्व तच ॥ ३२॥ ३ अन-मिथ्या मिन-सम्यक्त्वानि अष्ट नपुंसक-स्त्रीवेद-षद्कानि च । पुवेदं च क्षपयति क्रोधादींच संज्वलनान् ॥ १३१३ ॥ ॥५७०॥ SAREE For Personal Private Use Only

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202