Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 201
________________ सटट विशेषा ॥५९९॥ ___ प्रथमपौरुष्यां किल सूत्रमध्येतव्यम् , द्वितीयपौरुष्यां तु तस्यानुयोगः प्रवर्तते । अत इह कालस्य प्राधान्येन विवक्षणात् काले द्वितीयपौरुषीलक्षणेऽनुयोगः कालानुयोग इत्युच्यते । तथा, अवसर्पिण्या सुषमदुःपमा-दुःषमसुषमा-दुःपमारूपासु तिमषु 'समासु त्ति' अर- बत्तिः । केषु अनुयोगः प्रवर्तते, नान्यत्र । उत्सर्पिण्यां तु दुःषमसुषमा-सुषमदुःषमारूपयोः समयोद्वेयोररकयोरनुयोगः प्रवर्तते, नान्यत्र । अयं च कालेष्वनुयोगः कालानुयोगोऽभिधीयते । तदेवं भणितः षड्विधकालानुयोगोऽपि । अथ वचनानुयोगमाह- 'वयणस्सेत्यादि' इत्थंभूतमेकवचनं भवति, एवंभूतं वा द्विवचनम् , ईदृशं वा बहुवचनम् , एवंखरूप एकवचनाद्यन्यतरवचनस्य योऽनुयोगः, अयं वचनस्यानुयोग उच्यते । वचनानां त्वनुयोगः षोडशवचनानुयोगः । कानि पुनस्तानि षोडश वचनानि । उच्यते 'लिंगतियं वयणतियं कालतियं तह परुक्ख-पच्चक्खं । उवणय-ऽवयणचउद्धा अज्झत्तं होइ सोलसमं ॥१॥' __एषाऽपि गाथा विनेयानुग्रहार्थं व्याख्यानते- इयं स्त्री, अयं पुरुषः, इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानि लिङ्गत्रिकमुच्यते । एकः, द्वौ, बहव इत्येकत्वाद्यभिधायकशब्दत्रयं वचनत्रयमभिधीयते । अकरोत् , करोति, करिष्यतीति भूतादिकालत्रयप्रतिपादकं वचनं कालत्रिकं कालप्रतिपादकवचनत्रयमित्यर्थः । तथा, 'स' इति परोक्षार्थनिर्देशः परोक्षवचनम् । 'अयम्' इति प्रत्यक्षनिर्देशः प्रत्यक्षवचनम् । उपनयः स्तुतिः । अपनयस्तु निन्दा, तयोर्वचनं चतुर्धा, तद्यथा- 'रूपवती स्त्री' इत्युपनयवचनम्, 'कुरूपा स्त्री' इत्यपनयवचनम् । 'रूपवती स्त्री, किन्तु कुशीला' इत्युपनया-उपनयवचनमिति । 'कुरूपा स्त्री, किन्तु सुशीला' इत्यपनयो-पनयवचनमिति । यत्रान्यच्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यद् विभणिपुरपि सहसा यञ्चेतसि तदेव वक्ति, तत् षोडशमध्यात्मवचनमिति ।। एतत् षोडशवचनव्याख्यानं वचनानामनुयोगः । अत्र प्रथमैकवचनादीनामेकविंशतिवचनानां व्याख्या वचनानामनुयोग इत्यपि द्रष्टव्यमिति । तदेवं वचनस्य वचनानामित्युक्तम् ॥ १४०३ ॥ अथ वचनेन वचनैर्वचनेऽनुयोगः, इत्येतदाह वैयणेणायरियाई एक्केणत्तो बहुहिं वयणेहिं । वयणे खओवसमिए वयणेसु उ नत्थि अणुओगो॥ १४०४॥ वचनेनानुयोगो यथा- कश्चिदाचार्यादिः साध्वादिना सकृदेकेनापि वचनेनाऽभ्यर्थितोऽनुयोगं करोति । वचनैस्त्वनुयोगः ५९९॥ , लिङ्गत्रिक वचनत्रिक तथा परोक्ष-प्रत्यक्षे । उपनया-पनययोश्चतुर्धाऽध्यात्म भवति षोडशम् ॥ १॥ २ वचनेनाचार्यादिरेकेनोक्तो बहुभिर्वचनैः । वचने क्षायोपशमिके, बचनेषु तु नास्वनुयोगः ॥ १४०४।। Jan Education Inter For Personal and Private Use Only www.jaineitrary.ary

Loading...

Page Navigation
1 ... 199 200 201 202