Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 202
________________ নিহাঘ // 600 // यदा स एवाऽसकृद् बहुभिर्वचनैरभ्यर्थितस्तं करोति / क्षायोपशमिके वचने स्थितस्यानुयोगो वचनेऽनुयोगः / वचनेषु पुनर्नास्त्यनुयोगः, वचनस्य क्षायोपशमिकत्वेनानेकत्वासंभवात् / अन्ये तु मन्यन्ते- व्यक्तिविवक्षया येष्वेव क्षायोपशमिकेषु बहुषु वचनेष्वनुयोगः, इत्यप्यविरुद्धमेवेति / तदेवं पञ्चविधः, षड्विधो वा निर्दिष्टो वचनानुयोगोऽपि // 1404 // अर्थतावद्भेदमेव भावानुयोगमाह भावस्सेगयरस्स उ अणुओगो जो जहिडिओ भावो। दोमाइसंनिगासे अणुओगो होइ भावाणं // 1405 // औदयिकादिभावानामेकतरस्य व्याख्यानं यो यथावस्थितो भावस्तथैव प्ररूपणं भावस्यानुयोग इति सोपस्कारस्तात्पर्यार्थः / तेषामेवौदयिकादिभावानां द्वयादिसंनिकाशे द्वयादिसंयोगे यद् व्याख्यानं स भावानामनुयोगः / तदेवं भावस्य भावानां वाऽनुयोग इत्युक्तम् // 1405 // अथ भावेन भावैर्भावे भावेषु वानुयोग इत्येतद् विवरीपुराहभावेण संगहाईण ण्णयरणं दुगाइभावेहिं / भावे खओवसमिए भविसु य नत्थि अणुओगो // 1406 // अहवा आयाराइसु भावेसु वि एस होइ अणुओगो / सामित्तं आसज्ज व परिणामेसुं बहुविहेसुं // 1407 // . संग्रहादीनां पञ्चानामध्यवसायानामन्यतरेण चित्ताध्यवसायेन योऽनुयोगः क्रियते स भावेनानुयोगः / ते चामी पञ्चाभिप्रायाः, यदाह स्थानाङ्गे- " पंचहि ठाणेहिं सुयं वाएजा, तं जहा-संगहटाए, उवग्गहटाए, निजरद्वाए, सुयपजवजाएणं, अव्वोच्छित्तीए"। अयमर्थः- कथं नु नामैते शिष्याः सूत्रार्थसंग्राहकाः संपत्स्यन्ते ? / तथा, कथं नु नाम गीतार्था भूत्वाऽमी वस्त्राद्युत्पादनेन गच्छरोप ग्रहकरा भविष्यन्ति ?, ममाप्येतां वाचयतः कर्मनिर्जरा भविष्यति / तथा, श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिं यास्यक्ति , भावस्यैकतरस्य त्वनुयोगो यो यथावस्थितो भावः। द्वयादिसंनिकाशेऽनुयोगो भवति भावानाम् // 1405 // 2 भावेन संग्रहादीनामन्यतरेण, व्यादिभावैः / भावे क्षायोपशमिके भावेषु च नास्त्यनुयोगः // 1406 // अथवाऽऽचारादिषु भावेष्वप्येष भवस्यनुयोगः / स्वामित्वमासाथ वा परिणामेषु बहुविधेषु // 1407 // 6 पञ्चभिः स्थानैः श्रुतं वाचयेत् , तद्यथा-संग्रहार्थतया, उपग्रहार्थतया, निर्जरार्थतया, श्रुतपर्यवजातेन, अब्यवच्छित्त्या / 4600 JanEditional

Loading...

Page Navigation
1 ... 200 201 202