Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥५९७॥
वैत्तीए अक्खेण व करंगुलाईण वा विदव्वेणं । अक्खेहि य दव्वेहिं अहिगरणे कप्प-कप्पेहिं ॥१३९८॥
खटिकाचूर्णनिर्मितया वाऽक्षर-पदादिकं लिखित्वा योऽनुयोगः क्रियते स द्रव्येणानुयोगः, भङ्गकचारणादिषु च योऽक्षेण क्रियते सोऽपि तथैव । 'करंगुलाईण वा वि त्ति' योऽपि वा प्राकृतत्वेन विभक्तिव्यत्ययात् कराङ्गुल्यादिना इस्ताङ्गुल्यादिद्रव्येण किंचिद् दर्शयद्भिरनुयोगः क्रियते सोऽपि द्रव्येणानुयोगो भण्यते । बहुभिश्वाक्षर्भङ्गकचारणाद्यर्थ योऽनुयोगोऽसौ द्रव्यैरनुयोगः । अधिकरणे 8 चैकस्मिन् कल्पद्रव्य एककम्बलनिर्मितनिषद्यारूपे समुपविष्टो यदाऽनुयोगं करोति तदा द्रव्येऽनुयोगोऽसौ यदातु बहुकल्पमयनिषद्याद्रव्येषु तदा द्रव्येष्वनुयोग इति । तदेवं व्याख्यातः पडिधो द्रव्यानुयोगः ॥१३९८ ॥
अथ षड्वियक्षेत्रानुयोगव्याख्यामाह
पैन्नत्तिजंबुदीवे खेत्तस्सेमाइ होइ अणुओगो । खेत्ताणं अणुओगो दीव-समुद्दाण पन्नत्ती ॥ १३९९ ॥
क्षेत्रस्याऽनुयोगः क्षेत्रानुयोग एवमादिको भवति । कः?, इत्याह- 'पन्नत्तिजंबुदीचे त्ति' जम्बूद्वीपप्रज्ञप्तिरित्यर्थः, जम्बूद्वीपलक्षणैकक्षेत्रव्याख्यानरूपत्वात् तस्याः । बहूनां तु क्षेत्राणामनुयोगो द्वीप-सागरप्रज्ञप्तिर्भवति, बहूनां द्वीप-समुद्रक्षेत्राणां तत्र व्याख्यानादिति । तदेवं क्षेत्रस्य क्षेत्राणाममुयोगः' इत्युक्तम् ।। १३९९ ।।
अथ क्षेत्रेण क्षेत्रैरनुयोग इत्येतदाह
जबूदीवपमाणं पुढविजियाणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखेजा ॥ १४००॥
इह जम्बूद्वीपप्रमाणं प्रस्थकं पल्यं कृत्वा पुनः पुनस्तद्भरण-विरेचनक्रमेण यदा सर्वेऽपि मूक्ष्म-बादर-पृथ्वीकायिकजीवा मीयन्ते तदाऽसंख्येयलोकाकाशप्रदेशसंख्योपेता जम्बूद्वीपप्रमाणाः प्रस्था भवन्ति, इत्येष क्षेत्रेण जम्बूद्वीपरूपेणानुयोगोऽभिधीयत इति । क्षेत्र स्त्वनुयोगोऽयं द्रष्टव्यः, तद्यथा- बहुद्वीपप्रमाणं प्रस्थकं कृत्वाऽभीक्ष्णं तद्भरण-विरेचनक्रमेण समस्तपृथ्वीकायिकजीवा मीयमाना असंख्येयलोकाकाशप्रदेशराशिपरिमाणा बहुद्वीपमानप्रस्था भवन्ति । एतदसंख्येयकं पूर्वस्माल्लघुतरं द्रष्टव्यम् , प्रस्थस्येह बृहत्तरत्वात् । एष बहुद्वीपलक्षणैः क्षेत्ररनुयोग इति ॥ १४०० ॥
वाऽक्षेण वा कराडल्यादिनां वापि द्रव्येण । अझैश्च द्रव्यरधिकरणे कल्प-कल्पैः ॥ १३९८ ॥ २ जम्बूद्वीपप्रज्ञप्तिः क्षेत्रस्यैवमादिभवत्यनुयोगः । क्षेत्राणामनुयोगो द्वीप-समुद्राणां प्रज्ञप्तिः ॥ १३९९ ॥ ३ घ.छ.ज. 'पसागरक्षे । जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥ १४०.॥
॥५९७॥
Jan Education intem
For Personal and ev
e
nty
Loading... Page Navigation 1 ... 197 198 199 200 201 202