Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 189
________________ विशेषा. ॥५८७॥ सुयमिह जिणपवयणं तस्सुप्पत्ती पसंगओऽभिहिया। जिण-गणहरवयणाओ इमाइं तस्साभिहाणाई ॥१३६५॥ यदुक्तम्- 'केयं जिनप्रवचनोत्पत्तिः ?' तत्रेह जिनप्रवचनं तावत् श्रुतमुच्यते, इत्यसकृत प्रसिद्धमेव । अस्य चोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतः 'अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं' इत्यादौ 'जिन-गणधरेभ्यः' इति वचनात् पूर्वमप्यभिहितैव । यत्पुनरुक्तम्- 'तथा, जिनप्रवचनं कियदभिधानम् ?, अभिधानविभागो वाऽस्य कः?' इति । तत्रैतानि तावदस्याभिधानानि ॥ इति पञ्चदशगाथार्थः ॥ १३६५॥ कानि पुनस्तानि ?, इत्याह ऐगठियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो य । एकेकस्स य एत्तो नामा एगठिया पच ॥ १३६६ ॥ एकोऽर्थो येषां तान्येकार्थिकानि त्रीण्येव । कानि पुनस्तानि ?, प्रवचनमुक्तार्थम् , वक्ष्यमाणार्थं च, सामान्येन श्रुतज्ञानम् ।। सूचनात् सूत्रं, तद्विशेष एव । अर्यत इत्यर्थः, अयमपि तद्विशेष एव । एषां च प्रवचन-मूत्रा-र्थानां मध्य एकैकस्य प्रत्येकमेकाथिकानि पञ्च पञ्च नामानि भवन्ति ।। इति नियुक्तिगाथार्थः ।। १३६६ ॥ भाष्यम् जैमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं विसेसओ सुत्तमत्थो य ॥१३६७॥ गतार्था ॥ १३६७ ॥ मुत्रशब्दस्यार्थमाह सिंचइ खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवइ सुबइ सिव्वइ सरए व जेणत्थं ॥१३६८॥ 'पिंच क्षरणे' सिञ्चति क्षरति यस्मादर्थान् , ततो निरुक्तविधिना सूत्रम् । अथवा, निरुक्तविधिनैव सूचयति, स्रवति वार्थानि श्रुतमिह जिनप्रवचनं तस्योत्पत्तिः प्रसङ्गतोऽभिहिता । जिन गणधरवचनादिमानि तस्याभिधानानि ॥ १३६५ ॥ २ गाथा १११९ । ३ एकाथिकानि त्रीणि तु प्रवचनं सूत्रं तथैवार्थश्च । एकैकस्य चेतो नामान्येकाथिकानि पञ्च ॥ १३६६ ॥ ४ यदिह प्रकृतं प्रशस्तं प्रधानवचनं च प्रवचनं तच्च । सामान्यं श्रुतज्ञानं विशेषतः सूत्रमर्थश्च ॥ १३६७ ॥ ५ सिञ्चति क्षरति यदथै तस्मात् सूत्रं निरुक्तविधिना वा । सूचयति स्रवति श्रूयते सीव्यति सरति वा येनार्थम् ॥ १३६८ ॥ ॥५८७|| Jan Education Interna For Personal and Private Use Only www.jaineltrary.ary

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202