Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 192
________________ विशेषा० ॥५९०॥ पर कपESSOR 'तदुभयमत्यो य जह त्ति' यथा च तयोः सामान्य-विशेषयोरुभयं तदुभयमर्थो भण्यते- अर्थशब्दवाच्यं द्वितयमप्येतद् भवतीत्यर्थः । ते च सामान्य-विशेषा-ऽर्थलक्षणाखयोऽप्यर्था विष्वक् पृथग् यथा बहुपर्याया बढेकार्थाः, तद्यथा- सामान्य, सत्ता, भाव इत्यादि। | विशेषाः, भेदाः, पर्याया इत्यादि ; अर्थः, द्रव्यं, वस्त्वित्यादि। एवं प्रस्तुतयोः सूत्रा-ऽर्थयोरपि विवक्षयैकार्थतादयो भावनीयाः, तथाहि- प्रवचनलक्षण एकस्मिन्नर्थे द्वयोरपि सूत्रा-ऽर्थयोवृत्तत्वादेकार्थता; सूत्रस्य वाचकत्वात् , अर्थस्य तु वाच्यत्वाद् भिन्नार्थता । 'पवयणमुभयं च तयं ति' तच्च मूत्रा-ऽर्थयोरुभयमपि प्रवचनमुच्यते । त्रिकं चैतत् सूत्रा-अर्थ-प्रवचनलक्षणं विष्वक् पृथग् बहुपर्यायं बढेकार्थिकम् , तथा च वक्ष्यति- 'सुयधम्म तित्थ मग्गो' इत्यादि ॥१३७४ ॥ १३७५ ॥ अथवा, नयमतभेदादेषां त्रयाणामपि प्रवचनादीनामेकार्थता, पृथग्बहुपर्यायत्वं च न विरुध्यते, इति दर्शयन्नाह अहवा सव्वं नामं बंजणसुद्धियनयस्स भिन्नत्थं । इयरस्स अभिन्नत्थं संववहारो य तदवेक्खो ॥१३७६॥ संववहारट्ठाए तम्हा जेणेगया, न निच्छयओ । तो जुत्ताई तेसिं वीसुं पज्जायनामाइं ॥ १३७७ ॥ अथवा, व्यञ्जनशुद्धिकनयः समभिरूढलक्षणः शुद्धनयस्तस्याभिप्रायात् सर्वमपि नाम भिन्नार्थमेव, शब्दभेदात , घट-पटाद्यभिधानवदिति । इतरस्य तु नैगमादेरर्थनयस्थाभिमायादभिन्नार्थमपि नाम भवति, वस्तुनोऽनेकपर्यायत्वात , शकेन्द्र पुरन्दरादिनामवदिति । किश्च, संव्यवहारश्च लोकव्यवहारश्च तदपेक्षोऽभिन्नार्थनामापेक्ष एकार्थिकनामापेक्षः प्रायः प्रवर्तत इत्यर्थः, स्वः, स्वर्गः, सुरसम, त्रिदशावासः, त्रिविष्टपं, त्रिदिवमित्यायेकाथिंकनाममालादिशास्त्राणां संव्यवहारनयापेक्षयैव प्रवृत्तेरिति । ततः किम् ?, इत्याह-'संववहारेत्यादि' तस्माद् येनोक्तप्रकारेण संव्यवहारार्थतया व्यवहारनयापेक्षया नाम्नामेकता- एकार्थताऽप्यस्तीत्यर्थः, न निश्चयतः शुद्धतरशब्दमयलक्षणनिश्चयनयमतेन सर्वेषामपि भिन्नार्थत्वाद् न कचिदेकार्थतेत्यर्थः । ततस्तस्मात् तेषां प्रवचन-मूत्रा-ऽर्थानां विष्वक् पृथग् व्यवहारनयमतेन युक्तानि घटमानकानि पर्यायनामान्येकार्थिकाभिधानानि ।। इत्येकादशगाथार्थः ॥१३७६॥१३७७॥ तत्र प्रवचन-मूत्रयोस्तावत् पश्च पञ्चैकार्थिकाम्याह१ गाथा १३७८ । २ अथवा सर्व नाम व्यञ्जनशुद्धिकनयस्य भिन्नार्थम् । इतरस्याऽभिन्नाथ संव्यवहारश्च तदपेक्षः ॥ १३०६ ॥ संव्यवहारार्थतया तस्माद् येनकता, न निश्चयतः । ततो युक्तानि तेषां विष्वक् पर्यायनामानि ॥ १३ ॥ MARRAPE ॥५९०॥ For Personal and Prevate Une Grey

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202