Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वात्तिः ।
॥५९३॥
अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगठिया पंच॥ १३८५ ॥ अनुयोगः, नियोगः, भाषा, विभाषा, वार्तिकम् , इति पश्चानुयोगेकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३८५ ॥ अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्थं पुनरप्याहअणुओयणमणुओगो सुयस्स नियएण जमभिधेएणं। वावारोवा जोगो जो अणुरूवोऽणुकूलो वा॥ १३८६ ॥
अहवा जमत्थओथोव-पच्छभावेहिं सुयमणुंतस्स ।अभिधेये वावारो जोगो तेणं व संबंधो ॥ १३८७ ॥
यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः । अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, मूत्रमणु इत्युच्यते । कुतः । यस्मादर्थ- स्यानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पन्नेइ वा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्थं हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् मूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोऽणुयोगः । तेन वाऽणुना सूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः ॥ इति गाथाद्वयार्थः ॥ १३८६ ।। १३८७ ॥ ___ अथानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह
नाम ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ १३८८ ॥
नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य सप्तविधो निक्षेपः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। १३८८ ।।
विस्तरार्थं त्वभिधित्सुर्भाष्यकारो नाम-स्थापनानुयोगस्वरूपं तावदाह
१ अनुयोग नियोगो भाषा-विभाषे च वार्तिकं चैव । एतान्यनुयोगस्य तु नामान्येकाथिकानि पञ्च ॥ १३८५ ॥ २ अनुयोजनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ १३८६ ॥
अथवा यदर्थतः स्तोक-पश्चाद्भावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥ १३८७ ॥ ३ उत्पद्यन्ते वा । ४ नाम स्थानपना द्रव्य क्षेत्र कालो वचन-भावी च । एपोऽनुयोगस्य तु निक्षेपो भवति सप्तविधः ॥ १३८८ ॥
॥५९३॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 193 194 195 196 197 198 199 200 201 202