Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 193
________________ विशेषा बृहद्वत्तिः । सुयधम्म तित्थ मग्गो पावयणं पवयणं च एगट्ठा । सुत्तं तंतं गंथो पाठो सत्थं च एगट्ठा ॥ १३७८ ॥ श्रुतधर्मः, तीर्थ, मार्गः, प्रावचनं, प्रवचनम् , एतानि प्रवचनैकार्थिकानि । सूत्र, तन्त्र, ग्रन्थः, पाठः, शास्त्रं च, इत्येतानि सूत्रैकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३७८ ॥ तत्र श्रुतधर्म इति कोऽर्थः, इत्याह बोहो सुयरस धम्मो सुयं व धम्मो स जीवपज्जाओ। सुगईए संजमम्मि य धरणाओ वा सुयं धम्मो॥१३७९॥ श्रुतस्य धर्मः स्वभावः, स च बोधः, बोधस्वभावत्वात् श्रुतस्य । अथवा, श्रुतं च तद् धर्मश्च श्रुतधर्मो जीवपर्यायः अथवा, सुगतौ, संयमे वा धारणाद् धर्मः श्रुतमुच्यते, श्रुतं च तद् धर्मश्चेति श्रुतधर्मः ॥ १३७९ ॥ अथ तीर्थशब्दार्थमाह-- तित्थं ति पुव्वभणियं संघो जो नाण-चरण-संघाओ।इह पवयणं पि तित्थं तत्तोऽणत्थंतरं जेण ॥१३८०॥ तीयतेऽनेनेति तीर्थ पूर्वमेवाऽत्राप्युक्तम् । किम् ?, इत्याह- संघः । किविशिष्टः १ । ज्ञान-दर्शन-चारित्रगुणसंघातः । इह तु प्रवचनमपि तीर्थमुच्यते यस्मात् , ततः संघातात् तदपि श्रुतज्ञानरूपत्वादनान्तरमेवेति ॥ १३८० ॥ मार्गशब्दार्थमाह मैजिजइ सोहिजइ जेणं तो पवयणं तओ मग्गो । अहवा सिवस्स मग्गो मग्गणमन्नेसणं पंथो ॥१३८॥ ततस्तस्मात् प्रवचनं मार्ग उच्यते । येन किम् ?, इत्याह- 'मृजू शुद्धौ' मृज्यते शोध्यतेऽनेन कर्ममलिन आत्मा, तस्माद् हेतोः। अथवा, मार्गणं मार्गोऽन्वेषणं पन्थाः शिवस्येति ॥ १३८१ ॥ , श्रुतधर्मस्तीर्थ मार्गः प्रावचनं प्रवचनं चैकार्थानि । सूत्रं तन्त्र ग्रन्थः पाठः शास्त्रं चैकार्थानि ॥ १३७८ ॥ २ बोधः श्रुतस्य धर्मः श्रुतं वा धर्मः स जीवपर्यायः । सुगतौ संयमे च धारणाद् वा श्रुतं धर्मः ॥ १३७९॥ ३ तीर्थमिति पूर्वभणितं संघो यो ज्ञान-चारित्रसंघातः । इह प्रवचनमपि तीर्थ ततोऽनन्तरं येन ॥ १०॥ ४ प. उ. ज. 'असं' ५ मुज्यते शोध्यते येन ततः प्रवचनं ततो मार्गः । अथवा शिवस्य मागों मार्गणमन्वेषणं पन्थाः ॥ १८ ॥ ॥५९१॥ Salienesday

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202