Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 196
________________ बृहदत्तिः । विशेषा ॥५९४॥ नामस्स जोऽणुओगो अहवा जस्साभिहाणमणुओगो। नामेण व जो जोग्गो जोगो नामाणुओगो सो॥१३८९॥ ठवणाए जोऽणुओगोऽणुओग इति वा ठविज्जए जंच।जा वेह जस्स ठवणा जोग्गा ठवणाणुओगो सो॥१३९० नाम्न इन्द्रादेर्योऽनुयोगो व्याख्यानमसौ नामानुयोगः । अथवा, यस्य वस्तुनः 'अनुयोगः' इति नाम क्रियते तद् नाम्ना नाममात्रेणानुयोगो नामानुयोग इत्युच्यते । यदिवा, नाम्ना सह यः कश्चिद् योग्योऽनुरूपो योगः संबन्धः स नामानुयोगः, नाम्ना सहानुरूपः अनुकूलो वा योगो नामानुयोग इति व्युत्पत्तेः यथा दीपस्य दीपनाम्ना सह, तपनस्य तपननाम्ना सह, ज्वलनस्य ज्वलननाम्ना सहेत्यादि । एवं स्थापनाया अनुयोगो व्याख्यानं स्थापनानुयोगः। अथवा, अनुयोगं कुर्वन्नाचायोदियंत्र काष्ठादौ स्थाप्यते तत्स्थापनानुयोगः । या वेहानुयोगकर्तुराचार्यादेस्तदाकारवति लेप्यकर्मादौ योग्याऽनुरूपस्थापना क्रियते स स्थापनानुयोगः, स्थापनाया अनुरूपोनुकूलो वा योगः संबन्धः स्थापनानुयोग इति व्युत्पत्तेः ॥ १३८९ ।। १३९० ॥ अथ द्रव्यानुयोगमाहदेव्वस्स जोऽणुओगोदव्वे दव्वेण दव्वहेऊ वा। दव्वस्स पज्जवेण व जोग्गो दव्वेण वा जोगो ॥ १३९१ ॥ बहुवयणओ वि एवं नेओ जो वा कहे अणुवउत्तो। दवाणुओग एसो एवं खेत्ताइयाणं पि ॥ १३९२ ॥ द्रव्यस्य योऽनुयोगो व्याख्यानम्, 'एष द्रव्यानुयोगः' इति द्वितीयगाथायां संबन्धः। तथा, द्रव्ये निषद्यादावधिकरणभूते स्थितस्या| नुयोगो द्रव्यानुयोगः । द्रव्येण वा क्षीर-पापाणशकलादिना करणभूतेनानुयोगो द्रव्यानुयोगः । द्रव्यहेतोर्वा शिष्यद्रव्यप्रतिबोधनादिनिमित्तमनुयोगो द्रव्यानुयोगः । अथवा, द्रव्यस्य वस्त्रादेः कुसुम्भरङ्गादिना पर्यायेण सह य इह योग्योऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः । अथवा, द्रव्येणाम्लीकादिना कृत्वा यस्यैव वस्त्रादेस्तेनैव कुसुम्भरागादिना पर्यायेण सह योगोऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः । एवं बहुवचनतोऽपि ज्ञयो द्रव्यानुयोगः, तद्यथा- द्रव्याणां, द्रव्येषु, द्रव्यैर्वाऽनुयोगो द्रव्यानुयोगः, तथा, द्रव्याणां नानो योऽनुयोगोऽधवा यस्याभिधानमनुयोगः । नाना वा यो योग्यो योगो नामानुयोगः सः ॥ १३८९ ॥ स्थापनाया योऽनुयोगोऽनुयोग इति वा स्थाप्यते यच्च । या वेह यस्य स्थापना योग्या स्थापनानुयोगः सः ॥ १३९० ॥ २ व्यस्य योऽनुयोगो बग्ये जग्येण वा द्रव्यहेतुर्वा । द्रग्यस्य पर्यवेण वा योग्यो द्रव्येण वा योगः ॥ १३९१ ॥ बहुवचनतोऽप्येवं शेयो यो वा कधयत्यनुपयुक्तः । व्यानुयोग एष एवं क्षेत्रादिकानामपि ॥ १२९२ ॥ ॥५९४॥ Jan Education interna For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202