SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वात्तिः । ॥५९३॥ अणुओगो य निओगो भास-विभासा य वत्तियं चेव । एए अणुओगस्स उनामा एगठिया पंच॥ १३८५ ॥ अनुयोगः, नियोगः, भाषा, विभाषा, वार्तिकम् , इति पश्चानुयोगेकार्थिकानि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥ १३८५ ॥ अथानुयोगशब्दार्थ प्रागुक्तमपि विस्मरणशीलविनेयानुग्रहार्थं पुनरप्याहअणुओयणमणुओगो सुयस्स नियएण जमभिधेएणं। वावारोवा जोगो जो अणुरूवोऽणुकूलो वा॥ १३८६ ॥ अहवा जमत्थओथोव-पच्छभावेहिं सुयमणुंतस्स ।अभिधेये वावारो जोगो तेणं व संबंधो ॥ १३८७ ॥ यत् सूत्रस्य निजेनाभिधेयेनार्थेनानुयोजनं संबन्धनं सोऽनुयोगः । अथवा, योगो व्यापार उच्यते । ततश्चानुरूपोऽनुकूलो वा योगः सूत्रस्य निजेऽभिधेये व्यापारः, यथा घटशब्देन घटोऽभिधीयत इत्यनुयोगः । अथवा, मूत्रमणु इत्युच्यते । कुतः । यस्मादर्थ- स्यानन्तत्वात् तदपेक्षया सूत्रमणु । अथवा, "उप्पन्नेइ वा" इत्यादितीर्थकरोक्तार्थात् पश्चादेव गणधराः सूत्रं कुर्वन्ति, इतरकवयोऽप्यर्थं हृदये निवेश्य ततः काव्यं कुर्वन्ति, इत्येवमर्थात् पश्चादेव भवनात् मूत्रमणु व्यपदिश्यते । ततस्तस्याणोः सूत्रस्याभिधेये व्यापारो योगोऽणुयोगः । तेन वाऽणुना सूत्रेण सहाभिधेयस्य योगः संबन्धोऽणुयोगः ॥ इति गाथाद्वयार्थः ॥ १३८६ ।। १३८७ ॥ ___ अथानुयोगस्यैव संभवन्तं नामादिनिक्षेपमाह नाम ठवणा दविए खेत्ते काले वयण-भावे य । एसो अणुओगस्स उ निक्खेवो होइ सत्तविहो ॥ १३८८ ॥ नामानुयोगः, स्थापनानुयोगः, द्रव्यानुयोगः, क्षेत्रानुयोगः, कालानुयोगः, वचनानुयोगः, भावानुयोगः । एषोऽनुयोगस्य सप्तविधो निक्षेपः ॥ इति नियुक्तिगाथासंक्षेपार्थः ।। १३८८ ।। विस्तरार्थं त्वभिधित्सुर्भाष्यकारो नाम-स्थापनानुयोगस्वरूपं तावदाह १ अनुयोग नियोगो भाषा-विभाषे च वार्तिकं चैव । एतान्यनुयोगस्य तु नामान्येकाथिकानि पञ्च ॥ १३८५ ॥ २ अनुयोजनमनुयोगः श्रुतस्य नियतेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥ १३८६ ॥ अथवा यदर्थतः स्तोक-पश्चाद्भावाभ्यां श्रुतमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥ १३८७ ॥ ३ उत्पद्यन्ते वा । ४ नाम स्थानपना द्रव्य क्षेत्र कालो वचन-भावी च । एपोऽनुयोगस्य तु निक्षेपो भवति सप्तविधः ॥ १३८८ ॥ ॥५९३॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy