________________
विशेषा०
॥५९२॥
S
सपनाar
अथ प्रावचनशब्दार्थमाह
पैगयाइअभिविहीए पवयणं पावयणमाइवयणं वा । सिवपावयवयणं वा पावयणं, पवयणं भणिय॥१३८२॥ बृहद्वृत्तिः ।
'पगयाइ त्ति' पूर्ववत् प्रगताद्यर्थोत्रापि प्रशब्दः, आङ् मर्यादायाम् , अभिविधौ च गृह्यते । प्रगतं, प्रशस्त, प्रधानम् , आदौ वा जीवादिष्वभिविधि-मर्यादाभ्यां वचनं पावचनम् , शिवपापकं वा वचनं प्रावचनमुच्यते । प्रवचनशब्दार्थस्तु प्रागेव भणित इति । तदेवमुक्तः प्रवचनकार्थिकविभागः ॥ १३८२ ।।
अथ सूत्र-तन्त्र-ग्रन्थशब्दार्थमाहम सुत्तं भणियं तंतं तणिजए तेण तम्मि व जमत्थो । गंथिज्जइ तेण तओ तम्मि व तो तं मयं गंथो ॥१३८३॥
सूत्रशब्दार्थस्तावत् पागेव भणितः । तन्त्रशब्दार्थस्तूच्यते- 'तनु विस्तारे' तन्यते विस्तार्यते यद् यस्मादनेन, अस्मात् , अस्मिन् । वार्थ इति तन्त्रम् । अथवा, तन्यते विशिष्टरचनया तदेव विस्तार्यत इति तन्त्रं मूत्रमेवोच्यते । तथा, ग्रथ्यतेऽनेन, अस्मात् , अस्मिन् वाऽर्थ इति तदेव ग्रन्थ उच्यते । अथवा, तदेव प्रथ्यते विरच्यत इति ग्रन्थः ॥ १३८३ ।।
पाठ-शास्त्रयोः शब्दार्थमाह
पैढणं पाढो तं तेण तम्मि व पढिज्जएऽभिधेयं ति । सासिज्जए तेण तहिं व नेयमाया व तो सत्थं ॥१३८४॥
पठन पाठः, पठ्यते वा व्यक्तीक्रियते तदिति पाठः । पठ्यतेऽभिधेयमनेन, अस्मात् , अस्मिन्निति वा पाठः । 'शासु अनुशिष्टौ' शास्यते ज्ञेयमात्मा वाऽनेन, अस्मात् , अस्मिन्निति वा शास्त्रम् , शास्यते कथ्यते तदिति वा शास्त्रम् । इति गाथाषट्रार्थः । तदेवमभिहितः सूत्रकार्थिकविभागः॥ १३८४ ॥
___ अथाकार्थिकानि वक्तव्यानि, तत्राऽर्थः, व्याख्यानम् , अनुयोग इत्यनान्तरम् , इत्यनुयोगैकार्थिकान्याह
प्रकृताचभिविधी प्रवचनं प्रावचनमादिवचनं वा । शिवप्रापकवचनं वा प्रावचनं, प्रवचनं भणितम् ॥ १३८२ ॥ २ सूत्रं भणितं तन्वं तन्यते तेन तस्मिन् वा यदर्थः । अथ्यते तेन ततस्तस्मिन् वा ततस्तद् मतं प्रन्धः ॥ १३८३ ॥ ३ पठनं पाठस्तत् तेन तस्मिन् वा पख्यतेऽभिधेयामिति । शास्यते तेन तस्मिन् वा ज्ञेयमात्मा वा ततः शास्त्रम् ॥ १३८४ ॥
॥५९२॥
हा
JainEducational Internatior
For Don Pets Only
www.jainelibrary.org