Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
TOS
DRRENCY
बृहद्वात्तिः।
ति मूत्रम् । थूयत इति वा मूत्रम् । सीव्यते विशिष्टघटनामानीयत इति वा सूत्रम् । सरति वाऽर्थमनुगच्छति यस्मात् ततः विशेषासूत्रमिति ॥ १३६८॥ ॥५८८॥
तथा
अविवरियं सुत्तं पिव सुट्ठिय-वावित्तउ व सुत्तं ति । जो सुत्ताभिप्पाओ सो अत्थो अज्जए जम्हा ॥ १३६९ ॥
अर्थव्याख्यानतो यावदद्याप्यविवृतं तावत् सूत्रं सुप्तमिव सुप्तमुच्यते, माकृतशैल्या च 'सुत्त' इति । अथवा, सुस्थितत्वात् प्रमाणाबाधितस्वात् , व्यापितत्वाच सूत्रम्, प्राकृतत्वादेव च 'सुत्तं' । अर्थशब्दस्यार्थमाह- यः सूत्रस्याभिमायः सोऽर्थोऽभिधीयते यस्मादर्यते गम्यत इत्यर्थः ॥ १३६१ ॥
अथ प्रेरकः पाह___ सैह पवयणेण जुत्ता न सुयत्थेगत्थया परोप्परओ । जं सुयं वक्खेयं अत्थो तं तस्स वक्खाणं ॥ १३७० ॥
जुजइ च विभागाओ तिण्ह विभिन्नत्थयान चेहरहा । एगत्थाणं पि पुणो किमिहेगत्थाभिहाणेहिं ? ॥१३७१॥
ननु प्रवचनेन सह मूत्रा-ऽर्थयोरेकार्थता युक्ता, तद्विशेषत्वात् । तयोः मूत्रार्थयोः पुनः परस्परत एकार्थता न युज्यते, तयोरत्यन्तभेदात्; तथाहि- व्याख्येयं मूत्रम् , तयाख्यानं चार्थ इति महान् भेदः । अथवा, त्रयाणामप्येषां प्रवचन-मूत्रा-ऽर्थानां भिन्नार्थतैव FO युज्यते । 'न च त्ति न पुनः 'एकार्थता' इति शेषः, विभागाद् भिन्नविषयत्वात् । सामान्यविषयं हि प्रवचनम् , विशेषविषयौ च
मूत्रार्थी, इति कथं तेषामेकार्थता । न हि मृद्-घट-शरावादीनामेकार्थता युक्तिमती । इतरथा- यद्येकार्थान्येतानि त्रीण्यपि, तर्हि 'एकेकस्स य एत्तो नामा एगडिया पञ्च' इत्यनेन यान्येकैकस्य पञ्च पञ्चैकाथिकान्यभिधास्यन्ते, तानि न युज्यन्त एव । न हीन्द्र-शक्रपुरन्दरादिशब्दानामेकार्थानामपि पुनरपि प्रत्येकमेकाथिकान्युपपद्यन्त इति ॥ १३७० ।। १३७१ ।।
॥५८
, अविवृतं सुप्तमिव सुस्थित-व्यापिस्वतो वा सूत्रामिति । यः सूत्राभिप्रायः सोऽयोऽयते यस्मात् ॥ १३१९॥ २ सह प्रवचनेन युक्ता न श्रुताकाधता परस्परतः । यत् श्रुतं व्याख्येयमर्धस्तत् तस्य व्याख्यानम् ॥ १३७०॥ पुज्यते - विभागात प्रयाणामपि भिन्नार्थता न चेतरथा । एकार्थानामपि पुनः किमिहकार्थाभिधानः १ ॥ १३1॥ गाथा १३६६ ।
For Personal and Private Use Only
Loading... Page Navigation 1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202