Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 178
________________ विशेषा- ॥५७६॥ 'तदसंखिज्जइभागं ति तस्य संज्वलनलोभसंख्येयभागस्यासंख्येयतमो भागस्तदसंख्येयतमो भागस्तम् । 'खीणे त्ति' लोभाणुमात्रेऽपि सर्वथा क्षीण इत्यर्थः, क्षपकनिन्थतामवाप्य मोहसागरं तीवोऽन्तर्मुहूर्तकालं विश्राम्यति, यथोदधिं बाहुभ्यामुत्तीर्य स्ताघेगाधे पदप्रचारलङ्घनीये जानुदनादिके जले प्राप्तः कश्चित् तारकपुरुषो विश्राम्यति । शेषं गतार्थमेवेति ।। १३३० ॥१३३१॥ १३३२॥ __ ततः क्षीणमोहः सन्नसौ किं करोति', इत्याह छउमत्थकालदुचरिमसमए निदं खवेइ पचलं च । चरिमे केवललाभो खीणावरणंतरायस्स ॥१३३३॥ क्षीणमोहच्छद्मस्थकालस्यान्तर्मुहूर्तमानस्य योऽसो द्विचरमसमयः, चरमाद् द्वितीयो विचरमः, चरमो वा द्वितीयो यस्मादसौ द्विचरमः, असंख्येयानामेतद्गुणस्थानकसमयानामुपान्त्यसमय इत्यर्थः, तत्र द्विचरमसमये निद्रा प्रचलां च क्षपयति, चरमसमये तु पञ्चविधं ज्ञानावरणम् , पञ्चविधमन्तरायम् , दर्शनचतुष्टयलक्षणं च चतुर्विधं दर्शनावरणं क्षपयित्वा केवलज्ञानमवाप्नोति ॥ १३३३ ॥ अथावरणक्षये केवलज्ञानलाभ इत्यत्र निश्चय-व्यवहारनयवादमुपदर्शयन्नाह आवरणक्खयसमए नेच्छइअनयस्स केवलुप्पत्ती । तत्तोऽणंतरसमए ववहारो केवलं भणइ ॥१३३४॥ निश्चयनयस्याऽयमभिप्रायः- यस्मिन्नेव समये आवरणस्य क्षयः- क्षीयमाणमावरणमित्यर्थः, तस्मिन्नेव समये केवलज्ञानोत्पत्तिः, क्षीयमाणस्य क्षीणत्वात् , क्रियाकाल-निष्ठाकालयोरेकत्वात् ; भेदे चान्यत्र काले क्रिया, अन्यत्र च कार्योत्पत्तिरिति स्यात् , इदं चायुक्तम् , क्रियाविरहेऽपि कार्योत्पत्त्यभ्युपगमात् , इत्थं च क्रियारम्भकालात् पूर्वमपि कायोत्पत्तिप्राप्तेरतिप्रसङ्गादिति । व्यवहारनयस्तु- आवरणक्षयसमयादनन्तरसमये केवलोत्पत्ति भणति, आवरणस्य क्षयसमये क्षीयमाणत्वात् , क्षीयमाणस्य चाक्षीणत्वात् , क्रियाकाल-निष्ठाकालयोर्भेदात् , तदेकत्वे च क्रियाकालेऽपि कार्यस्य सत्त्वे क्रियावयर्थ्यप्रसङ्गात् । न च समानकालभाविनोः क्रिया-कार्ययोः कार्यकारणभावो युज्यते, सव्ये-तरगोविषाणादीनामपि तत्मसङ्गात् ॥ १३३४ ।। तथाच व्यवहारनयो निजपक्ष समर्थयति . छपस्थकालद्विचरमसमये निद्रां क्षपयति प्रचलां च । चरमे केवललाभः क्षीणावरणान्तरायस्य ।। १३३३ ॥ २ भावरणक्षयसमये नैश्चयिकनयस्य केवलोत्पत्तिः । ततोऽनन्तरसमये व्यवहारः केवलं भणति ।। १३३४॥ ५७६॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.org

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202