Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 180
________________ SONG विशेषा ॥५७८॥ बृहदार जं निजरिजमाणं निजिणं ति भणियं सुए जं च । नोकम्मं निजरिइ नावरणं तेण तस्समए॥१३३८॥ यद् यस्मात् "चलमाणे चलिए, जाव निजरिज्जमाणे निजिणे" इति वचनाद् निर्जीयमाणं कर्म निर्जीर्ण श्रुतेऽप्युक्तम् , अतः क्षीयमाणं क्षीणमेव, इति नानयोः कालभेदः। 'जं च चि' यस्मादिदं चागमे प्रोक्तम् । किम् ?, इत्याह- "कैम्मं बेइज्जइ नोकम्मं निजरेज" इत्येतावत् सूत्रं द्रष्टव्यम् , वेद्यमानावस्थायां कर्म वेद्यते, निर्जरावस्थायां तु नोकर्म- अकर्मेत्यर्थः, अन्यश्च वेदनासमयः, अन्यश्च निर्जरासमयः । ततस्तस्मात् कारणात् तत्समय आवरणक्षीयमाणतासमये- आवरणस्य निर्जरणसमय इत्यर्थः, 'नावरणं ति' नास्त्यावरण-नास्ति प्रतिबन्धकं कर्म, क्षीयमाणस्य क्षीणत्वादित्यर्थः ॥ १३३८॥ प्रतिबन्धकाभावाच्च भवत्येवावरणक्षीयमाणतासमये केवलज्ञानोत्पत्तिः, कस्तां निरुणद्धि ? । अहमिति चेत् , इत्याह जैइ नाणमनावरणे विनत्थि तोतं न नाम पच्छा वि।जायंच अकारणओतमकारणओ च्चिय पडेजा॥१३३९॥ यद्यनावरणेऽप्यावरणाभावेऽपि केवलज्ञानमुत्पत्तिं न लभते, ततः पश्चादप्यावरणक्षयोत्तरकालं यदा किल त्वयेष्यते तदापि तदुत्पतिर्न स्यात् । अथावरणाभावाविशेषेऽप्यावरणक्षयसमये केवलज्ञानं न भवति, तदुत्तरकालं तु पश्चाद् भवति, इति यदृच्छया मोच्यते; हन्त ! नाकारणा यहच्छयैव प्रमूतिरस्य, ततोऽकारणत एच जातम् , अकारणतयैव तत् प्रतिपतेत् , विशेषाभावादिति ॥ १३३९ ॥ तस्मात् किमिह स्थितम् ?, इत्याह नाणसावरणस्स य समयं तम्हा पगास-तमसो व्व । उप्पाय-ब्वयधम्मा तह नेया सव्वभावाणं ॥१३४०॥ तस्मात् केवलज्ञानस्य तदावरणस्य च युगपदेवोत्पाद-व्ययधो द्रष्टव्यौ। कयोरिव ?, इत्याह- प्रकाश-तमसोरिव । यथा हि युगपदेव तमो निवर्तते, प्रदीपादिप्रकाशस्तूत्पद्यते, इति य एव तमसो निवृत्तिसमयः स एव प्रकाशस्योत्पादसमयः । एवमिहापि युगपदेवाधरणं निवर्तते, केवलज्ञानं तूत्पद्यत इति । आत्मद्रव्यं त्ववतिष्ठत इति । य एवावरणस्य क्षयसमयः स एव केवलज्ञानस्योत्पादस । यद् निर्जीयमाणं निर्जीणमिति भणितं श्रुते यच्च । नोकमें निर्जीयते नावरणं तेन तत्समये ॥ ११३८॥ २ चल्यमाने चलितः, यावद् निर्जीयमाणे निर्जीर्णः । ३ कर्म वेचते नोकर्म निर्जीयत । ४ यदि शानमनावरणेऽपि नास्ति ततस्तन् न नाम पश्चादपि । जातं.चाकारणतस्सदकारणत एवं पतेत् ॥ १५३९॥ ५ ज्ञानस्यावरणस्य च समकं तस्मात् प्रकाश तमसोरिव । उत्पाद-व्ययधौं तथा शेयौ सर्वभावानाम् ॥ १३४.. ॥५७८॥ Forsonal Prese Only aww.jainelibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202