Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
PORN
POS
हतिः ।
विशेषा० ॥५७३॥
सो तस्स विसुद्धयरो जायइ सम्मत्तपोग्गलक्खयओ। दिछि व्व सुण्हसुहब्भपडलविगमे मणूसस्स ॥१३२०॥ जह सुद्धजलाणुगयं वत्थं सुद्ध जलक्खए सुतरं । सम्मत्तसुद्धपोग्गलपरिक्खए दसणं पेवं ॥ १३२१ ॥
हन्त ! यः सम्यक्पदार्थश्रद्धानरूपो जीवस्य भावः परिणामः स एव तावद् मुख्यतः सम्यक्त्वमुच्यते, यस्तु शोधितमिथ्यात्वपुद्गलपुञ्जः स तत्त्वतो मिथ्यात्वमेव, केवलं सम्यक्तत्वश्रद्धानरूपस्य जीवभावस्याशुद्धमिथ्यात्वपुञ्जवदनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । एवं च सति यदाच्छादितमदनकोद्रवरूपं मिथ्यात्वमेव सदुपचारतः सम्यक्त्वं प्रसिद्धम् , तदेव तस्य क्षपकस्य क्षीणम् , न तु यस्तत्त्वश्रद्धानलक्षणो जीवस्य भावः । स च तस्य तत्त्वश्रद्धानभाव औपचारिकसम्यक्त्वरूपे सम्यक्त्वपुद्गलपुले क्षपिते प्रत्युत विशुद्धतरो जायते, यथा श्लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य लोचनद्वयरूपा दृष्टिः । खच्छाभ्रपटलसदृशो हि सम्यक्त्वपुद्गलपुञ्जः, सच क्षपितोऽभ्रपटलमिव दृष्टर्यच यावच्च तत्त्वश्रद्धानपरिणामस्य विघातक एव । ततोऽनर्थरूपे तस्मिन् क्षपितेऽभ्रपटलविगमे लोचनद्वयीव तत्त्वश्रद्धानपरिणतिनिर्मलतरैव भवति ।
दृष्टान्तान्तरमाह- 'जहेत्यादि' यथा सुधौतं शुद्ध निर्मलं जलानुगतं किश्चिदाई वस्त्रमातपशेषात् समस्तजलक्षये सुतरामेव शुद्धं भवतिः एवमौपचारिकसम्यक्त्वरूपा ये सुद्धपुद्गलास्तत्परिक्षयात् पारिमार्थिकरुचिरूपं सम्यग्दर्शनमपि सुतरां निर्मलं भवति ॥ १३१९ ।। १३२० ॥ १३२१ ।।
अपरमपि दृष्टान्तमाह
सेसन्नाणावगमे सुद्धयरं केवलं जहा नाणं । तह खाइयसम्मत्तं खओवसमसम्मविगमम्मि ॥ १३२२ ॥
यथेह शेषस्य सायोपशमिकस्य मत्यादिज्ञानचतुष्टयस्यापगमेऽन्यत् क्षायिकं शुद्धतरं केवलज्ञानलक्षणं ज्ञानान्तरं प्रादुरस्ति, न पुनरज्ञो भवति जीवः, तद्वत् क्षायोपशमिकसम्यक्त्वविगमेऽप्यपरं विशुद्धतरं क्षायिकं सम्यग्दर्शनान्तरमुपजायते, न त्वदर्शनी भवति जीवः ॥ १३२२॥
१ स तस्य विशुद्धतरो जायते सम्यक्त्वपुद्रलक्षयतः । इष्टिरिव लक्षणशुद्धाचपटलविगमे मनुष्यस्य ॥ १३२० ॥ __ यथा शुबजलानुगतं वर्ष वं जलक्षये सुतराम् । सम्यक्त्वशुद्धपुलपरिक्षये दर्शनमण्येवम् ॥10॥ २ शेषज्ञानापगमे शुबतरं केवलं यथा जानम् । तथा क्षायिकसम्यक्त्वं क्षयोपशमसम्यक्त्वविगमे ॥ १२२२ ॥
se
॥५७३॥
Loading... Page Navigation 1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202