Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥५३७॥
भङ्गा द्रष्टव्याः , तद्यथा- कस्यचिद् बन्धहेतूनां प्रकर्षात् , पूर्वोपचितकर्मक्षपणहेतूनामपकर्षाच्चोपचयप्रकर्षः, कस्यचित्तु चन्धहेतूनां क्षपण| हेतूनां च साम्यादुपचया-ऽपचयसाम्यम्, कस्यचित् पुनर्बन्धहेतूनामपकर्षात् क्षपणहेतूनां च प्रकर्षादपचयमकर्षः। तदिह तृतीयभने R यदाऽसौ मिथ्यादृष्टिरपि वर्तते तदा ग्रन्थिदेशं प्राप्नोति । इत्युक्तः पल्यदृष्टातः ।। १२०५ ॥ १२०६ ॥
कथं पुनरनाभोगत एवैतावतः कर्मणोऽपचयः १, इत्याशङ्कय द्वितीयं गिरिसरिदुपलदृष्टान्तमाह
'गिरिनइ-बत्तणिपत्थरघडणोवम्मेण पढमकरणेणं । जा गंठी कम्मठितिक्खवणमणाभोगओ तस्स॥१२०७॥
गिरिनदीपाषाणानां, तथा, वर्तनी मार्गस्तत्पतितपाषाणानां च लघूपलशकलानां या घटना परस्परादिघर्षणा तदौपम्येन ग्रन्थि यावत् कर्मस्थितिक्षपणमनाभोगत एव तस्य जीवस्य प्रथमेन यथाप्रवृत्तकरणेन भवति । अयमभिप्रायः- यथा गिरिनदीपाषाणाः मार्गपतितपाषाणाश्चानाभोगतोऽपि- 'वयमीशा भवामः' इत्यध्यवसायमन्तरेणापि, परस्परतो लोकचरणादिना वा घृष्यमाणा घश्चनघोलनान्यायेन केनापि वृत्त-व्यस-चतुरस्त्र-इस्व-दीर्घाद्यनेकाकारा भवन्ति; एवमिहापि कथमप्येवमेवाऽनाभोगतो यथाप्रवृत्तकरणेन जीवाः कर्म क्षपयित्वा ग्रन्थिदेशमाप्नुवन्ति ॥ १२०७॥
पिपीलिकोदाहरणमधिकृत्याह
खितिसाभावियगमणं थाणूसरणं तओ समुप्पयणं । ठाणं थाणुसिरे वा ओरहणं वा मुइंगाणं ॥१२०८॥ खिइगमणं पिव पढम थाणूसरणं व करणमपुव्वं । उप्पयणं पिव तत्तो जीवाणं करणमनियहि ॥१२०९॥
थाणु व्व गठिदेसे गंठियसत्तस्स तत्थवत्थाणं । ओयरणं पिव तत्तो पुणो वि कम्मठिइविवुड्ढी ॥१२१०॥ 'मुइंगाणं ति' कीटिकानामत्र पश्चार्थाः किल विवक्षिताः; तद्यथा- क्षितौ तावत् स्वाभाविकमविशिष्टमितश्चेतश्च गमनं पर्यटनम् ।
गिरिनदी-वर्तनीपाषाणघटनौपम्येन प्रथमकरणेन । यावद् ग्रन्थि कर्मस्थितिक्षपणमनाभोगतस्तस्य ।। १२०७ ॥ २ क्षितिस्वाभाविकगमनं स्थाणूत्सरणं ततः समुत्पतनम् । स्थानं स्थाणुशिरसि वाऽवरोदणं वा कीटिकानाम् ॥ १२०८ ॥ क्षितिगमनमिव प्रथम स्थाणूत्सरणमिव करणमपूर्वम् । उत्पतनमिव ततो जीवानां करणमनिवर्ति ॥ १२०९ ॥ स्थाणाविव प्रन्धिदेशे प्रन्थिकसत्वस्य तत्रावस्थानम् । अवसर्पणमिव ततः पुनरपि कर्मस्थितिविवृद्धिः ॥ १२१०॥
MONDIA
PAPIDIO
॥५३७॥
For Personal and Private Use Only
Loading... Page Navigation 1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202