Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥५४७॥
Jain Educationa Internationa
अथोक्तमेवार्थं संगृह्य विभणिषुः तथा चतुर्थकषायाणां यथाख्यातचारित्रादिविघातित्वं च दिदर्शयिषुराह—
मूलगुणाणं लंभं न लहई मूलगुणघाइणो उदए । संजलणाणं उदए न लहइ चरणं अहक्खायं ॥१२३८॥ इह सम्यक्त्वं, व्रताऽणुव्रतानि च मूलभूता गुणा मूलगुणाः, उत्तरगुणानामाधारभूतत्वात् तेषां मूलगुणानां लाभं न लभते । कदा ?, इत्याह-यथोक्तान् मूलगुणान् हन्तुं शीलं येषां ते मूलगुणघातिनस्तेषां मूलगुणघातिनामनन्तानुबन्ध्य-मत्याख्यान- प्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये । एतच्च 'पैढमिल्लुआण उदए' इत्यादिना सर्व भावितमेव । तथा, ईषज्ज्वलनात् संज्वलनाः, सपदि ज्वलनाद् वा संज्वलनाः, परीषहादिसंपाते चारित्रिणमपि ज्वलयन्तीति वा संज्वलनाः क्रोधादय एव चत्वारः कषाया:, तेषामुदये न लभते, लब्धं वा त्यजति चरणं चारित्रम् । किं सर्वमपि १, न, इत्याह- यथैव तीर्थकर गणधरैराख्यातं यथाख्यातमकषायमित्यर्थः, सकषायं तु लभते । न च यथाख्यातचारित्रमात्रमेवोपघ्नन्ति संज्वलनाः, किन्तु शेषचारित्राणामपि देशोपघातिनो भवन्ति, तदुदये शेषचारित्रातिचार सिद्धेः । इति नियुक्तिगाथार्थः || १२३८ ॥
के पुनस्ते मूलगुणाः, यद्विघातिनो द्वादश कषायाः १, इत्याह
सम्मत्तसमेयाई महव्वया-णुव्वयाई मूलगुणा । मूलं सेसाहारो बारस तग्घाइणो एए ॥ १२३९ ॥ गतार्था, नवरं शेषाणामुत्तरगुणानामाधारत्वात् सम्यक्त्व- महाव्रतादीनि मूलमुच्यते, तद्विघातिन एते द्वादश कषाया इति ॥। १२३९ ॥ अत्रार्थापश्याऽऽक्षिप्तमनवगच्छन्नाह परः
"निसिभत्तविरमणं पि हुनणु मूलगुणो कहं न गहियं तं ? । वयधारिणो च्चिय तयं मूलगुणो सेसयस्सिय ॥१२४० ॥ आहारविरमणाओ तो व तव एव वा जओऽणसणं । अहव महव्वयसंरक्खत्तणाओ समिइउव्व ॥ १२४१ ॥
१ मूलगुणानां लाभं न लभते मूलगुणघातिन उदये । संज्वलनानामुदये न लभते चरणमथाख्यातम् ॥ १२३८ ॥ २ घ. छ. क्त्वं महाव्रतानि ।
३ गाथा १२२६ । ४ सम्यक्त्वसमेतानि महाव्रता ऽणुव्रतानि मूलगुणाः । मूलं शेषाधारो द्वादश तद्वातिन एते || १२३९ ॥
५ निशिभक्तविरमणमपि हि ननु मूलगुणः कथं न गृहीतं तत् ? । व्रतधारिण एव तद् मूलगुणः शेषस्येतरः ॥ १२४० ॥ आहारविरमणात् तप इव तप एव वा यतोऽनशनम् । अथवा महाव्रतसंरक्षत्वात् समितय इव ॥ १२४१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥५४७॥
www.jainellibrary.org
Loading... Page Navigation 1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202