Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥५५८॥
'गिम्ह-सिसिर-वासासुं चउत्थयाईणि बारसंताई । अड्ढापकंतीए जहण्ण-मज्झिमु-क्कोसयतवाणं ॥१२७३॥
स च परिहारस्तपः पुनः परिहारिकाणां प्रस्तुततपो वोढणां ग्रीष्म-शिशिर-वर्षासु प्रत्येकं जघन्यादित्रिविकल्पश्चतुर्थादि तपो ज्ञेय इति । एतदेव व्यक्तीकरोति- 'गिम्हेत्यादि' ग्रीष्म-शिशिर-वर्षासु चतुर्थादीनि द्वादशान्तानि तपांसि विज्ञेयानि । कया। अर्धापकान्त्या । केषां याऽर्धापक्रान्तिः १, इत्याह- जघन्य-मध्यमो-त्कृष्टतपसाम् । इदमुक्तं भवति-ग्रीष्मे सामान्येनैवोष्णकाले जघन्यं तपश्चतुर्थ ते कुर्वन्ति, मध्यमं तु षष्ठम् , उत्कृष्टं पुनरष्टमम् । स्थापना-११२।३॥ एतदेवार्धापक्रान्त्या शिशिरे कुर्वन्ति । तत्रार्धस्याऽसमप्रविभागरूपस्यैकदेशस्य वैकादिपदात्मकस्यापक्रमणमवस्थानम् , शेषस्य तु यादिपदसंघातरूपस्यैकदेशस्योर्ध्वं गमनं यस्यां रचनायां सासमयपरिभाषयार्धापक्रान्तिरुच्यते । तत्र चतुर्थ-षष्ठा-ऽष्टमानि ग्रीष्मे प्रोक्तानि । एतेषां मध्यादेकदेशश्चतुर्थलक्षणोऽपक्रामत्यवतिष्ठते, शेष | तु षष्ठा-ऽष्टमपदव्यमूर्ध्व शिशिरे गच्छति, तृतीयं तु दशमलक्षणं पदं मील्यते । ततश्च जघन्यतः षष्ठं, मध्यमतोऽष्टमम् , उत्कृष्टतस्तु दशमं शिशिरे कुर्वन्तीति सिद्धं भवति-२।३।४॥ एतेषां मध्यादेकदेशः षष्ठलक्षणोऽपक्रामति, अष्टम-दशमे तूर्व वर्षासु गच्छतः, तृतीयं त्वतनं द्वादशं मील्यते । ततश्च जघन्यतोऽष्टमम् , मध्यमतस्तु दशमम् , उत्कृष्टतस्तु द्वादशं तपो वर्षासु कुर्वन्ति-३।४।५॥ तदत्र पदत्रयमध्यादेकदेशापक्रान्त्यार्धापक्रान्तिरुक्ता ॥ १२७२ ॥ १२७३ ॥
ननु परिहारिकास्तावदिदमुक्तस्वरूपं तपः कुर्वन्ति, अनुपरिहारिक-कल्पस्थितानां तु का वार्ता ? इत्याह
सेसा उ निययभत्ता पायं भत्तं च ताणमायामं । होइ नवण्हं वि नियमा न कप्पए सेसयं सव्वं ॥१२७४॥
शेषाः पुनरनुपरिहारिक-कल्पस्थिताः पश्चापि पायो नियतभक्ता नित्यभोजिनो भवन्ति । प्रायोग्रहणाद् निजेच्छया कदाचिदुपवासमपि कुर्वन्ति । भक्तं च तेषां सर्वदैवाऽनुपरिहारि-कल्पस्थितानां पारणके परिहारिकाणां च सर्वेषामाचाम्लमेव भवति । शेषं तु विकृति-लेपकदादिकं वस्तु सर्व नवानामपि नियमाद् न कल्पत इति ॥ १२७४ ॥
कियन्ति दिनानि केनेदं तपः कर्तव्यम् ?, इत्याहपरिहारिया-ऽणुपरिहारियाण कप्पट्ठियस्स वि य भत्तं । छ छम्मासा उ तवो अट्ठारसमासिओ कप्पो॥१२७५॥ ।
१ ग्रीष्म-शिशिर वर्षासु चतुर्थकादीनि द्वादशान्तानि । अर्धापक्रान्त्या जघन्य-मध्यमो-त्कृष्टतपसाम् ॥ १२७३ ॥ २ शेषास्तु नियतभक्ताः प्रायो भक्तं च तेषामाचाम्लम् । भवति नवानामपि नियमाद् न कल्पते शेषकं सर्वम् ॥ १२७४ ।।
||५५८॥ ३परिहारिका-ऽनुपरिहारिकाणां कल्पस्थितस्यापि च भक्कम् । षट् पडू मासांस्तु तपोऽष्टादशमासिकः कल्पः ॥ १२७५ ।।
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202