Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 169
________________ विशेषा० ॥५६७॥ Jain Education Internatio कियति कर्मण्युपशान्ते कथंभूतोऽसौ प्रोच्यते ?, इत्याह 'दंसणमोहाईओ भण्णइ अनियट्टिबायरो परओ । जाव उ सेसो संजलणलोभसंखेज्जभागो त्ति ॥१३०० ॥ स च दर्शनसप्तक उपशमिते तदतीतः सन् परतः शेषं नपुंसकवेदादिकं कर्मोपशमयन्ननिवृत्तिवादरोऽभिधीयते, यावत् संजयलनलोभस्य संख्याततमो भागः शेषः । निवृत्तिवादरस्तु न किञ्चिदुपशमयति, इति नेहासौ संगृहीतः ।। १३०० ॥ ततः किमसौ करोति ?, इत्याह तदसंखेज्जइभागं समए समए समेइ एक्केकं । अंतोमुहुत्तमेत्तं तस्सासंखिज्जभागं पि ॥ १३०१ ॥ तमपि संज्वलनलोभस्य संख्येयभागमसंख्येयैः खण्डैः करोति । ततस्तस्य लोभसंख्येयभागस्याऽसंख्याततममेकैकं भागं समये समय उपशमयति । तस्य च लोभसंख्यात भागस्याऽसंख्याततममपि भागं प्रति समयमुपशमयन्नन्तर्मुहूर्तमात्रं कालं सूक्ष्म परायोऽभिधीयत इत्युत्तरगाथायां संबन्धः ॥ इति सप्तदशगाथार्थः ।। १३०१ ।। तदेवं सूक्ष्म संपरायस्वरूपं सविशेषमाह भाणू वेयंतो जो खलु उवसामओ व खवओ वा । सो सुहुमसंपराओ अहक्खाया ऊणओ किंचि ॥१३०२ ॥ अन्तर्मुहूर्तमात्रं कालं यावत् सूक्ष्मसंपरायोऽभिधीयते । यः किम् ?, इत्याह- 'लोभाणू इत्यादि' लोभसंख्यात भागस्याऽसंख्याततमांशवर्त्यणून प्रतिसमयं वेदयन् यत उपशमकः क्षपको वा भवति । अयं च लोभांशमात्रावशेषत्वाद् यथाख्याताद् किञ्चिदेव न्यूनः ॥ इति नियुक्तिगाथार्थः ॥ १३०२ ॥ आह- ननूपशमकाधिकारे किमिति क्षपको निर्दिष्टः १, इत्याह वसामयाहिगारे तस्समभागो त्ति खवगनिद्देसो । सुहुमसरागातीतो अहक्खाओ होइ निग्गंथो ॥१३०३ ॥ १ दर्शनमोहातीतो भव्यतेऽनिवृत्तिवादरः परतः । यावत्त शेषः संज्वलनलोभसंख्येयभाग इति । १३०० ॥ २ तदसंख्येयभागं समये समये शमयत्येकैकम् । अन्तर्मुहूर्तमात्रं तस्यासंख्येयभागमपि ॥ १३०१ ॥ ३ लोभाणून वेदयन् यः खलूपशमको वा क्षपको वा स सूक्ष्मसंपरायोऽथाख्यातादूनकः किञ्चित् ॥ १३०२ ॥ ४ उपशमकाधिकारे तत्समभाग इति क्षपकनिर्देशः । सूक्ष्मसरागातीतोऽथाख्यातो भवति निर्मन्थः || १३०३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥५६७॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202