Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥५६५॥
Jain Educationa Internat
Coinc
ननूपशमोऽध्ययमेव यः । किम् १, इत्याह- उदिते कर्मणि क्षीणे, अनुदिते तूपशान्ते भवति । अत्रोत्तरमाह - ननु मिश्र क्षयोपशमे सूक्ष्मोदयताऽस्ति - प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः । उपशमितेऽपि तु कर्मणि तदपि नास्ति इत्यतोऽनयोविंशेष इति ॥ १२९२ ॥ एतदेवाह -
'des संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेएइ न संतकम्मं पि ॥ १२९३ ॥ स क्षयोपशमावस्थकषायवाञ्जीवः क्षायोपशमिकंष्वनन्तानुबन्ध्यादिषु तत्संवन्धि सत्कर्माऽनुभवति- प्रदेशकर्म वेदयति, न पुनरनुभावम् विपाकतस्तु तान् वेदयतीत्यर्थः । उपशान्तकषायस्तु सत्कर्माऽपि न वेदयति, इति क्षयोपशमो-पशमयोर्विशेष इति ।। १२९३ ॥ पुनरपि पर: माह
संजोयणाइयाणं नणूदयो संजयस्स पडिसिद्धो । सच्चमिह सोऽणुभावं पडुच्च न पएसकम्मं तु ॥ १२९४ ॥ ननु संयतस्य संयोजनादिकपायाणामुदयो निषिद्ध एव तदुदये संयतत्वहानिप्रसङ्गात् । अत्रोत्तरमाह- सत्यम्, अनुभावं रसं विपाकमाश्रित्येहासौ तदुदयो निषिद्धः संयतादीनाम्, न तु प्रदेशकर्म प्रतीत्य ॥ १२९४ ॥
अनुभावविरहिता अपि प्रदेशा नियमेन वेद्यन्त इत्यागमेऽप्यभिहितमेवेति दर्शयन्नाह -
भणियं च सुए जीवो वेएइ नवाणुभावकम्मं ति । जं पुण पएसकम्मं नियमा वेएइ तं सव्वं ॥ १२९५ ॥ नादियं निज्जीरइ नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं वेएउं मुच्चए सव्व ॥ १२९६ ॥ सूत्रेऽपि भगवती लक्षणे प्रोक्तम् । किम् १, इत्याह- जीवोऽनुभावकर्म वेदयते, नवा । यत् पुनः प्रदेशकर्म तद् नियमात् सर्व वेदयतीति । तथा चोक्तम्- “ एवं खलु गोयमौ ! दुबिहे कम्मे पन्नत्ते, तं जहा - पएसकम्मे य, अणुभावकम्मे य । तत्थ णं जं तं
१ वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥ १२९३ ॥
२ संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभावं प्रतीत्य न प्रदेशकर्म तु ॥ १२९४ ॥
३ भणितं च श्रुते जीवो वेदयति नवानुभावकर्मेति । यत्पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ १२९५ ॥ नानुदितं निर्जीर्यते नासदुदेति यत् ततोऽवश्यम् । सर्वे प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ १२९६ ॥
४ एवं खलु गौतम ! द्विविधं कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म च अनुभावकर्म च तत्र यत् तत् प्रदेशकर्म तदस्त्येकं वेदयति, अस्त्येकं नो वेदयति । ५. छ. 'मा मए दु'
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ५६५॥
www.jainelltrary.org
Loading... Page Navigation 1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202