SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५६५॥ Jain Educationa Internat Coinc ननूपशमोऽध्ययमेव यः । किम् १, इत्याह- उदिते कर्मणि क्षीणे, अनुदिते तूपशान्ते भवति । अत्रोत्तरमाह - ननु मिश्र क्षयोपशमे सूक्ष्मोदयताऽस्ति - प्रदेशोदयेन सत्कर्मवेदनमस्तीत्यर्थः । उपशमितेऽपि तु कर्मणि तदपि नास्ति इत्यतोऽनयोविंशेष इति ॥ १२९२ ॥ एतदेवाह - 'des संतकम्मं खओवसमिएसु नाणुभावं सो । उवसंतकसाओ पुण वेएइ न संतकम्मं पि ॥ १२९३ ॥ स क्षयोपशमावस्थकषायवाञ्जीवः क्षायोपशमिकंष्वनन्तानुबन्ध्यादिषु तत्संवन्धि सत्कर्माऽनुभवति- प्रदेशकर्म वेदयति, न पुनरनुभावम् विपाकतस्तु तान् वेदयतीत्यर्थः । उपशान्तकषायस्तु सत्कर्माऽपि न वेदयति, इति क्षयोपशमो-पशमयोर्विशेष इति ।। १२९३ ॥ पुनरपि पर: माह संजोयणाइयाणं नणूदयो संजयस्स पडिसिद्धो । सच्चमिह सोऽणुभावं पडुच्च न पएसकम्मं तु ॥ १२९४ ॥ ननु संयतस्य संयोजनादिकपायाणामुदयो निषिद्ध एव तदुदये संयतत्वहानिप्रसङ्गात् । अत्रोत्तरमाह- सत्यम्, अनुभावं रसं विपाकमाश्रित्येहासौ तदुदयो निषिद्धः संयतादीनाम्, न तु प्रदेशकर्म प्रतीत्य ॥ १२९४ ॥ अनुभावविरहिता अपि प्रदेशा नियमेन वेद्यन्त इत्यागमेऽप्यभिहितमेवेति दर्शयन्नाह - भणियं च सुए जीवो वेएइ नवाणुभावकम्मं ति । जं पुण पएसकम्मं नियमा वेएइ तं सव्वं ॥ १२९५ ॥ नादियं निज्जीरइ नासंतमुदेइ जं तओऽवस्सं । सव्वं पएसकम्मं वेएउं मुच्चए सव्व ॥ १२९६ ॥ सूत्रेऽपि भगवती लक्षणे प्रोक्तम् । किम् १, इत्याह- जीवोऽनुभावकर्म वेदयते, नवा । यत् पुनः प्रदेशकर्म तद् नियमात् सर्व वेदयतीति । तथा चोक्तम्- “ एवं खलु गोयमौ ! दुबिहे कम्मे पन्नत्ते, तं जहा - पएसकम्मे य, अणुभावकम्मे य । तत्थ णं जं तं १ वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः । उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि ॥ १२९३ ॥ २ संयोजनादिकानां ननूदयः संयतस्य प्रतिषिद्धः । सत्यमिह सोऽनुभावं प्रतीत्य न प्रदेशकर्म तु ॥ १२९४ ॥ ३ भणितं च श्रुते जीवो वेदयति नवानुभावकर्मेति । यत्पुनः प्रदेशकर्म नियमाद् वेदयति तत् सर्वम् ॥ १२९५ ॥ नानुदितं निर्जीर्यते नासदुदेति यत् ततोऽवश्यम् । सर्वे प्रदेशकर्म वेदयित्वा मुच्यते सर्वः ॥ १२९६ ॥ ४ एवं खलु गौतम ! द्विविधं कर्म प्रज्ञप्तम्, तद्यथा- प्रदेशकर्म च अनुभावकर्म च तत्र यत् तत् प्रदेशकर्म तदस्त्येकं वेदयति, अस्त्येकं नो वेदयति । ५. छ. 'मा मए दु' For Personal and Private Use Only बृहद्वृत्तिः । ॥ ५६५॥ www.jainelltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy