________________
विशेषा०
॥५६४॥
Jain Education Internation
यदा तु नपुंसकः प्रारम्भकः, तदोदीर्ण नपुंसकवेदं षङ्कादुपर्युपशमयति, अनुदीर्णं तु स्त्रीवेदं जघन्यतरत्वाद् दर्शनत्रिकादुपरि प्रथम - सुपशमयति, ततः पुरुषवेदमिति ।। १२८८ ।।
ततः किम् ?, इत्याह
मैज्झिल्लकसायाणं कोहाइसमाणजाइए दो दो । एक्केकेणंतरिए संजलणेणं उबसमेइ ॥ १२८९ ॥
अनन्तानुबन्ध्युपशमस्योक्तत्वात् संज्वलनानां तूपशमस्याऽन्तरालेषु भावात्, अर्थाद् मध्यमकषाया अप्रत्याख्यान- प्रत्याख्यानावरणा एवावशिष्यन्ते । तेषां मध्यात् क्रोधादिसमानजातीयौ द्वौ द्वावेकैकेन क्रोधादिसंज्वलनेनान्तरितावुपशमयतीति ।। १२८९ ॥
अत्र मेरकः माह
संजलणाईणं समो जुत्तो, संजोयणादओ जे उ । ते पुव्वं चिय समिया नणु सम्मत्ताइलाभम्मि || १२९० ॥ ननु संज्वलनकषाय- हास्यादीनामुदयवर्तित्वाच्छमो युक्तः । ये तु संयोजनादयः कषायास्ते पूर्वमेव सम्यक्त्वादिगुणप्राप्तिकाले उपशामिता एव, सम्यक्त्वादिलाभान्यथानुपपत्तेः । अत इदानीं तेषामुपशमाभिधानमयुक्तमेवेति भावः ।। १२९० ॥ अत्रोत्तरमाह-
आसि खओवसमो सिं समोऽहुणा, भणइ को विसेसो सिं ? । नणु खीणम्मि उइण्णे सेसोवसमे खओवसमो ॥१२९१॥ हन्त ! सम्यक्त्वादिलाभकाले आसीदेषां संयोजनादिकषायाणां क्षयोपशमः, अत इदानीं तेषामुपशमोऽभिधातव्य एव । अथ प्रेरको भणति - ननु क्षयोपशमो-पशमयोः कः किल विशेष: ? । सूरिराह- ननूदीर्णे उदयप्राप्ते कर्मणि क्षीणे, शेषे चानुदीर्णे उपशान्ते सति क्षयोपशमोऽभिधीयत इति ।। १२९१ ॥
प्रेरकः प्राह
*सो चैत्र नणूत्रसमो उइए खीणम्मि सेसए समिए । सुहुमोदयता मीसे न तूवसमिए विसेसोऽयं ॥ १२९२ ॥
१ मध्यमपायाणां क्रोधादिसमानजातयौ द्वौ द्वौ । एकैकेनान्तरितौ संज्वलनेनोपशमयति ॥। १२८९ ॥
२ संज्वलनादीनां शमो युक्तः, संयोजनादयो ये तु ते पूर्वमेव शमिता ननु सम्यक्त्वादिलाभे ॥ १२९० ॥
३ आसीत् क्षयोपशम एष शमोऽधुना, भणति को विशेषोऽनयोः ? । ननु क्षीण उदीर्णे शेषोपशमे क्षयोपशमः ॥ १२९ ॥
४ स एव ननुपशम उदिते क्षीणे शेषके शमिते । सूक्ष्मदयता मिले न तूपशमिते विशेषोऽयम् ॥ १२९२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥५६४॥
www.jainelibrary.org