________________
विशेषा०
॥५६३॥
Jain Educations Internatio
विस्तरार्थं तु भाष्यकारः प्राह
सामगढी पडवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥ १२८५॥ अन्ने भणति अविरय देस पमत्ता ऽप्रमत्तविरयाणं । अन्नयरो पडिवज्जइ दंसणसमणम्मि उ नियट्टी ॥ १२८६ ॥ तार्थे, नवरमविरताद्यममत्तान्तानां मध्यात् केनापि दर्शन सप्तकेनोपशमिते ततो 'नियट्टि ति' निवृत्तिवादरो भवतीति
।। १२८५ ।। १२८६ ॥
'अण' इत्येतद् व्याख्यातुमाह
भवति जओऽणंतमर्णताणुबंधिणोऽण त्ति । ते चत्तारि वि समयं समेइ अंतोमुहुत्तेणं ॥ १२८७ ॥ गाथापूर्वार्धस्यान्ते 'अण' इत्येतद्ग्रहणवाक्यम्, अतो व्याख्यानयति- ' भवमित्यादि' भवं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुवन्धिनस्तान् प्रशस्तध्यानतोऽन्तर्मुहूर्तेन युगपदुपशमयति, उदयोद्वर्तनादिकरणाऽयोग्यान् सतोऽप्यसत्कल्पान् करोतीति॥ १२८७॥
शेषावयवव्याख्यामाह -
ततो य दंसणतिगं तओऽणुइण्णं जहन्नयरवेयं । तत्तो बीयं छक्कं तओ य वेयं सयमुदिन्नं ॥ १२८८ ॥
ततश्चानन्तानुबन्ध्युपशमानन्तरं मिथ्यात्वादिदर्शनत्रिकम्, ततोऽनुदीर्णस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तमुपशमयति, ततो द्वितीयम्, ततः षम्, ततो यः कश्चिदुदये वर्तते वेदस्तमुपशमयति । इदमुक्तं भवति- यदि पुरुषः श्रेणिप्रारम्भकः, तदा पुरुषवेदस्तस्योदये वर्तते, स्त्री-नपुंसकवेदौ त्वनुदीर्णी, तयोश्च मध्ये नपुंसकवेदो जघन्यतरः, ततो दर्शनत्रिकादुपरि प्रथमं तमुपशमयति, ततः स्त्रीवेदम्, उदीर्ण तु पुंवेदं पङ्कादुपरि पश्चादुपशमयति । अथ स्त्री प्रारम्भिका, तदा स्त्रीवेदस्तस्या उदये, पुं-नपुंसकवेदौ त्वनुदयाatri | अनयोरपि नपुंसकवेदो जघन्यतरः, इति तं प्रथममुपशमयति, ततः पुंवेदम्, उदीर्ण तु स्त्रीवेदं पश्चात् पङ्कादुपर्युपशमयति ।
१ उपशमश्रेणी प्रस्थापकोऽप्रमत्तविरतस्तु । पर्यवसाने स वा भवति प्रमतश्च विरतो वा ॥ १२८५ ॥ अन्ये भणन्त्यविरत-देश-प्रमत्ता ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते दर्शनशमने तु निवृत्तिः ॥ १२८६ ॥ । भवमनुबध्नन्ति यतोऽनन्तमनन्तानुबन्धिनोऽन इति । तांश्चतुरोऽपि समकं शमयत्यन्तर्मुहूर्तेन ॥ १२८७ ॥ । ततश्च दर्शनत्रिकं ततोऽनुदीर्ण जघन्यतरवेदम् । ततो द्वितीयं षट्कं ततश्च वेदं स्वकमुदीर्णम् ॥ १२८८ ॥
For Personal and Private Use Only
२ गाथा १२८४ ।
बृहद्वृत्तिः ।
॥५६३॥
www.jainelibrary.org