________________
बृहद्वात्तः।
ततो हास्य-रत्य-रति-शोक-भय-जुगुप्सालक्षणं हास्यादिषटू युगपदन्तर्मुहूर्तेन, ततः पुरुषवेदमन्तर्मुहूर्तेन । अथ स्त्री प्रारम्भिका, ततः विशेषा प्रथमं नपुंसकवेदम् , ततः पुरुषवेदम् , ततो हास्यादिषद, ततः स्त्रीवेदमुपशमयति, इत्येवं द्रष्टव्यम् । अथ नपुंसकः प्रारम्भकः, ततो-
ऽसावनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति, ततः पुरुषवेदम् , ततः षटम् , ततो नपुंसकवेदम् , इत्येष क्रमः । अत ऊर्च द्वौ द्वौ क्रोधाद्या॥५६२॥
वेकान्तरितौ संज्वलनक्रोधादिव्यवहितो, सदृशौ क्रोधादित्वेन परस्परं तुल्यौ सदृशं युगपदेव प्रत्येकमन्तर्मुहूर्तेनोपशमयति । एतदुक्तं भवति- अप्रत्याख्यान-प्रत्याख्यानावरणौ क्रोधौ क्रोधरूपतया सदृशौ सदृशं युगपदन्तर्मुहूर्तेनोपशमयति, ततः संज्वलनं क्रोधमेकाकिनमेकान्तर्मुहूर्तेनोपशमयति । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणौ मानौ मानरूपतया सदृशौ सदृशं युगपदेव, ततः संज्वलनं मानम् , ततोऽप्रत्याख्यान-प्रत्याख्यानावरणमायाद्वयं मायारूपतया सदृशम् , ततः संज्वलनां मायाम् । ततोऽप्रत्याख्यान-प्रत्याख्यानावरणलोभद्वयं लोभरूपतया सदृशं युगपदुपशमयति, ततः संज्वलनं लोभम् । अमुं चोपशमयंत्रिधा करोति-द्वौ भागौ युगपदुपशमयति; तृतीयं तु भार्ग संख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति । तत एतेषां संख्येयखण्डानां यच्चरमं खर्ड तदसंख्येयानि
खण्डानि करोति । ततः समये समय एकैकं खण्डमुपशमयति । इह च दर्शनसप्तक उपशान्तेपूर्वकरणः, निवृत्तिबादरो वाभिधीयते । Ko तत ऊर्ध्वमनिवृत्तिवादरो यावत्संख्येयखण्डानां चरमखण्डम् । चरमसंख्येयखण्डनिष्पन्नानि त्वसंख्येयखण्डान्युपशमयन् सूक्ष्मसंपरायः। । तदेवमन्तर्मुहूर्तेन संज्वलनं लोभमपि सर्वमुपशमयति । एवं सर्वत्र प्रत्येकमन्तर्मुहूर्तमुपशमकालः । सर्वापि चेयं श्रेणिमहताऽन्तर्मुहूर्तेन | समयते।
- अस्याश्च श्रेणेरनन्तानुबन्धिचतुष्टयादीनां प्रत्येकं शून्यस्थापनया स्वरूपं भावनीयम् । तत्रानन्तानुबन्धिचतुष्टयस्थापने चत्वारि शून्यानि तिर्यग् व्यवस्थाप्यन्ते, तद्यथा-००००। एषामुपशमस्य प्रारम्भो निष्ठा च समकालमेव, इति तिर्यक्समतया स्थाप्यन्ते । एवमुत्तरत्रापि तिर्यक्समस्थापनायां भावार्थोऽबसेयः। एतदुपरि तिर्यक्समशून्यत्रयेण दर्शनत्रयं स्थाप्यते- ०००। एतदुपर्येकस्य वेदकस्यैकं शून्यम् , तदुपरि द्वितीयस्य द्वितीयम्-:। तदुपरि हास्यादिषटुं समश्रेण्या तिर्यक् स्थाप्यते- ० ० ० ० ० ० । एतदुपरि तृतीयवेदशून्यम् , तदुपर्यपि तिर्यक्क्रोधशून्यद्वयम्-० ० । एतदुपरि संज्वलनक्रोधस्य शून्यम्- । एतदुपरि तिर्यग्मानद्वयस्य शून्यद्वयम्-००। तदुपरि मानस्यैकं शून्यम्- ' । तदुपरि मायाद्वयस्य तिर्यक् शून्यद्वयम्- ० .। तदुपरि मायायाः शून्यम्- ० । तदुपरि लोभद्वयस्य तिर्यगेव शून्यद्वयम्- ० ० । एतदुपरि संज्वलनस्य लोभस्यैकं शून्यम्- ० । एवमूर्ध्वं स्थापना विधाय सर्व भावनीयम् ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १२८४ ।।
५६२।।
M
JainEducational
For Personal and Private Use Only
www.jaineltrary.ory