________________
विशेषा
॥५६॥
अथवा, आय चारित्रत्रयं कषायाणां क्षयोपशमादुक्तम् , उपलक्षणत्वात् क्षयात् , उपशमाञ्चेति । मूक्ष्मसंपराय-यथाख्यातचारित्रद्वयं तु यस्मादुपशमेन, क्षयेण वा लभ्यत इत्युक्तम् , तेन तस्मात् कारणात् तावेवोपशम-क्षयौ क्रमेण भण्ये ते । यो हि श्रेणिद्वयंमुप- बृहद लप्स्यते स पूर्वमुपशमश्रेणिं करोति, पश्चात्तु क्षपकश्रेणिम् , इत्यमुं क्रममाश्रित्य युगपद् द्वयाभिधाने प्राप्तेऽपि प्रथममत्रोपशमश्रेणी, पश्चात्तु क्षपकश्रेणी वक्ष्यत इति भावः ॥ १२८२ ।।
अथ तृतीयामपि पातनामाह
सेढिगयस्स सुहुमं सेढीओ निग्गयस्सहक्खायं । सा उवसम-क्खयओ पढम तत्थोवसमसेढी ॥१२८३॥ 'वा' इत्यथवा, श्रेण्यन्त विनः सूक्ष्मसंपरायमुक्तम् , तद्विनिर्गतस्य तु यथाख्यातम् , अतः श्रेणिद्वयं भणनीयमायातम् , उभयश्रेणिलाभे चोपशमश्रेणिमेवादौ कुरुते, इति सैव तावत् प्रथममुच्यते ।। इति द्वाविंशतिगाथार्थः ।। १२८३ ॥
तामेव विहितप्रस्तावनामुपश्रेणिमाह
अण-दंस-नपुंस-त्थीवेय-च्छक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ॥१२८४॥
इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयतो भवतीति केचित् । अविरत-देशविरत-प्रमत्ता-अमत्तसंयतानामन्यतर इत्यन्ये । श्रेणः समाप्तौ च निवृत्तोप्रमत्तगुणस्थाने प्रमत्तगुणस्थाने वावतिष्ठते, कालगतस्तु देवेष्वविरतो वा भवति । कार्मग्रन्थिकाभिप्रायेण तु प्रतिपतितोऽसौ मिथ्यादृष्टिगुणस्थानकमपि यावद् गच्छति । तत्थमेतामारभते- 'अण त्ति' । 'अण-रण-' इत्यादिदण्डकधातुः । अणन्तीवाऽविकलहेतुत्वेनाऽसातवेद्यम् , नारकाद्यायुष्कं च शब्दयन्त्याकारयन्तीत्यणा आद्याः क्रोधादयश्चत्वारः कषायाः। अथवा, अण त्ति' प्राकृतत्वेन अनाः, एकदेशेन समुदायस्य गम्यमानत्वादनन्तानुबन्धिनस्त एवाऽऽद्याः क्रोधादयश्चत्वारः कपाया इत्यर्थः। तत्राऽसौ प्रतिपत्ता प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानः प्रथमं युगपदन्तर्मुहूर्तमात्रेण कालेनाऽनन्तानुबन्धिनः क्रोधादीनुपशमयति । 'दंस त्ति दर्शनं दर्शः, तच्च दर्शनं मिथ्यात्व-मिश्र-सम्यक्त्वभेदात् त्रिविधम् । ततोऽनन्तानुवन्ध्युपशमानन्तरमेतदपि युगपदन्तर्मुहूर्तेनोपशमयति । ततो यदा पुरुषः श्रेणिसमारम्भको भवति, तदानुदीर्णमपि 'नपुंस त्ति' नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, ततः स्त्रीवेदमन्तर्मुहूर्तेन, १ क.ग. 'यमपि ल' । २ श्रेणिगतस्य सूक्ष्म श्रेणीतो निर्गतस्थाऽयाख्यातम् । सोपशम-क्षयतः प्रथमं तत्रोपशमश्रेणिः ॥ १२८३ ॥
RO ||५६१॥ ३ अन-दर्श-नपुंसक-श्रीवेद-पदकानि च पुरुषवेदं च । द्वौ द्वावेकान्तरिती सरशी सदृशमुपशमयति ।। १२८५ ॥
Jan Education intem
For Personal and Private Use Only
www.jaineitrary.ary