________________
विशेषा०
॥५६०॥
Jain Educations Internatio
अथ यथाख्यातचारित्रं विवृण्वन्नाह
अहसदो जाहत्थे आङोऽनिविहीए कहियमक्खायं । चरणमकसायमुदितं तमहक्खायं जहक्खायं ॥ १२७९ ॥ बृहद्वृत्तिः। 'अथ' इत्ययं याथातथ्यार्थे, आङ् अभिविधौ । ततश्च याथातथ्येन, अभिविधिना वाख्यातं कथितं तदकषायं चरणं तदथाख्यातं यथाख्यातं चोदितमिति ।। १२७९ ।।
एतच्च कतिविधम् ?, इत्याह
तं दुविगप्पं छउमत्थ- केवलिविहाणओ पुणेक्क्कं । खय-वसमज- सजोगा ऽजोगिकेवलिविहाणओ दुविहं ॥ १२८० ॥ तच्च यथाख्यातचारित्रं छद्मस्थ- केवलिस्वामिभेदाद् द्विभेदम् । छद्मस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थम्, तदुपशमप्रभवं च । केवलिसंबन्ध्यपि सयोग्य ज्योगिकेवलिभेदतो द्विविधमेवेति ।। १२८० ॥
अथ पूर्वोक्तं निगमयन्, उत्तरनिर्युक्तिगाथां च संबन्धयन्नाह -
भैणियं खओवसमओ अहुणोवसमेणं लहइ जह जीवो। सामइयं तं भण्णइ सो जं च खओवसमपुव्व ॥ १२८१ ॥ तदेवं 'संत पडणं अभिंतरओ कोडकोडीए' इत्यादिना भणितः क्षयोपशमात् सामायिकलाभः । अधुना तु 'अण- दंस-नपुंसि त्थी' इत्यादिना वक्ष्यमाणाद् यथा मोहोपशमात् सामायिकं लभ्यते तद् भण्यते । किमिति प्रथमं क्षयोपशमात् तल्लाभ उक्तः १, इत्याह- 'सो जं चेत्यादि' स यस्माद् वक्ष्यमाण उपशमः क्षयोपशमपूर्वः । पूर्व हि मोहनीयक्षयोपशमात् सम्यक्त्वादिकं लभ्यते, पश्चाच्चोपशमश्रेणिः । अतोऽनेनैव क्रमेणैतदभिधानम् । इत्येका पातना ।। १२८१ ॥
अथ पातनान्तरमाह
"अहवा खओवसमओ चरणतियं उवसमेण खयओ वा । सुहुमा हक्खायाइं तेणोवसम-क्खया कमसो ॥ १२८२ ॥
१ क. ग. 'ख्यातं वि' । २ अथशब्दो याथार्थ्य आङभिविधौ कथितमाख्यातम् । चरणमकषायमुदितं तदाख्यातं यथाख्यातम् ॥ १२७९ ॥
३ तद् द्विविकल्प स्थ-केवलिविधानतः पुनरेकैकम् । क्षयोपशमज-सयोग्य ऽयोगिकेवलिविधानतो द्विविधम् ॥ १२८० ॥
४ भणितं क्षयोपशमतोऽधुनोपशमेन लभते यथा जीवः सामायिकं तद् भण्यते स यच्च क्षयोपशमपूर्वः ॥ १२८१ ॥ ५ गाथा ११९३ । • अथवा क्षयोपशमतश्चरणन्त्रिकमुपशमेन क्षयतो वा सूक्ष्माऽथाख्याते तेनोपशम-क्षयो क्रमशः ॥ १२८२ ॥
६ गाथा १२८४ ।
For Personal and Private Use Only
॥५६०॥
www.jainelibrary.org