________________
विशेषा
द्वात्तः।
॥५६६॥
पएसकम्मं तं अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ" इति । यस्माद् न खल्वनुदितं कर्म निर्जीयते, न चासदुदेति, किन्तु सदेवोदेति । यस्मात् सर्वोऽपि मुमुक्षुः सर्वमपि प्रदेशकर्म वेदयित्वैव मुच्यते, नान्यथा । ततः प्रदेशवेद्यानामनन्तानुबन्ध्यादीनामिदानीमुपशमो निरूप्यत इति प्रकृतम् ॥ १२९५ ॥ १२९६ ॥
पुनरपि परः पाह'किह दसणाइघाओ न होइ संजोयणाइ वेदयओ ? मंदाणुभावयाए जहाणुभावम्मि वि कहिंचि ॥१२९७॥
निच्चोदिन्नं पिजहा सयलचउण्णाणिणो तदावरण । न विघाइ मंदयाए पएसकम्मं तहा नेयं ॥ १२९८ ॥
नन्वेवं सति प्रदेशतोऽपि संयोजनादिकपायान् वेदयतः संयतादेः कथं सम्यग्दर्शनादिविघातो न भवति । अत्र प्रतिवि-1 धानमाह- मन्दानुभावतया नीरसप्रदेशमात्रवेदनाद्न सम्यक्त्वादिघात इत्यर्थः । यथेह कचिदनुभावकर्मापि नातिविघातकं दृष्टम् , तद्यथा- नित्योदितमपि मति-श्रुता-ऽवधि-मनःपर्यायावरणचतुष्टयं संपूर्णचतुर्जानिनो न मत्यादिज्ञानविघाताय दृष्टम् , मन्दत्वात | तद्वत् तत्पदेशकर्मापि नीरसत्वाद् न दर्शनादिविघातायेति ॥ १२९७ ॥ १२९८ ॥
किच,
किरियाए कुणइ रोगो मंदं पीलं जहाऽवणिजंतो। किरियामेत्तकयं चिय पएसकम्मं तहा तवसा ॥१२९९॥
यथेह रोगो भिषजादिक्रियया विधिवदपनीयमानो मन्दा क्रियामात्रकृतामेवाऽऽतुरस्य पीडां करोति, नातिगुर्वीम् । तद्वत् | प्रदेशकर्मापि तपसाऽपनीयमानं तपोरूपक्रियामात्रप्रकृतामेव पीडां करोतीति; तथाहि-नरकगत्यादिकाः कर्मप्रकृतयस्तद्भवसिद्धिकानामपि
मुनीनां सत्तायां विद्यन्त एव, न चाननुभूतास्ताः कदाचिदपि क्षीयन्ते, न च तद्भवसिद्धिका नरकादिजन्मविपाकेन ताः समनुभवति, | किन्तु तपसा प्रदेशरूपतया समनुभूय ताः क्षपयति । न च वेदयिता काश्चिद् बाधामनुभवति । ततो ज्ञायते- न प्रदेशकमेवेदनं | गुणविघाताय, बाधाकरणं वेति ॥ १२९९ ॥
, कथं दर्शनादिघातो न भवति संयोजनादि वेदयतः ! । मन्दानुभावतया यथानुभावेऽपि कुत्रचित् ॥ १२९७ ॥
नित्योदीर्णमपि यथा सकलचतुज्ञानिनस्तदावरणम् । न विधाति मन्दतया प्रदेशकर्म तथा ज्ञेयम् ॥ १२९८ ॥ १ क्रियया करोति रोगो मन्दा पीडां यथाऽपनीयमानः । क्रियामात्रकृतामेव प्रदेशकर्म तथा तपसा ॥ १२९९ ॥
॥५६६॥
Jan Education International
For Personal and Private Use Only
HOMwww.jaineltrary.org